001 सञ्जय उवाच 001a हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः 001c धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः 002a प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः 002c अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः 003a मेकलाः कोशला मद्रा दशार्णा निषधास्तथा 003c गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत 004a शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः 004c सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे 005a तान्सम्मिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् 005c पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् 006a एकैकं दशभिः षड्भिरष्टाभिरपि भारत 006c द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः 006e प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः 007a पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः 007c तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः 008a नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः 008c सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् 009a ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि 009c हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः 010a बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः 010c विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः 011a प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः 011c नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् 012a तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः 012c नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः 013a पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् 013c सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः 014a विपताकं वियन्तारं विवर्मध्वजजीवितम् 014c तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् 015a सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् 015c नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च 016a दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् 016c नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् 017a तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः 017c स पपात हतो म्लेच्छस्तेनैव सह दन्तिना 018a आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे 018c अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः 019a चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः 019c मिमर्दिशन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः 020a मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः 020c शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः 021a तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः 021c परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः 022a ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह 022c सृजतां शरवर्षाणि तोमरांश्च सहस्रशः 023a नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च 023c दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च 024a तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः 024c सहदेवो जघानाशु ते पेतुः सह सादिभिः 025a अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् 025c नाराचैरहनन्नागान्नकुलः कुरनन्दन 026a ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः 026c शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः 027a ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः 027c बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः 028a एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः 028c द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् 029a ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः 029c विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः 030a सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् 030c दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् 031a तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः 031c सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह 032a ततो भारत क्रुद्धेन तव पुत्रेण धन्विना 032c पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली 033a सहदेवस्ततो राजन्नाराचेन तवात्मजम् 033c विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः 034a दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे 034c सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् 035a सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे 035c व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति 036a समार्गणगणं चापं छित्त्वा तस्य महानसिः 036c निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् 037a अथान्यद्धनुरादाय सहदेवः प्रतापवान् 037c दुःशासनाय चिक्षेप बाणमन्तकरं ततः 038a तमापतन्तं विशिखं यमदण्डोपमत्विषम् 038c खड्गेन शितधारेण द्विधा चिच्छेद कौरवः 039a तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः 039c पातयामास समरे सहदेवो हसन्निव 040a ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे 040c सहदेवरथे तूर्णं पातयामास भारत 041a ताञ्शरान्समरे राजन्वेगेनापततो बहून् 041c एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत 042a स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् 042c अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् 043a ततः क्रुद्धो महाराज सहदेवः प्रतापवान् 043c समाधत्त शरं घोरं मृत्युकालान्तकोपमम् 043e विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् 044a स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् 044c प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 044e ततः स मुमुहे राजंस्तव पुत्रो महारथः 045a मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् 045c अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः 046a पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज 046c दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः 047a पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा 047c तथा सा कौरवी सेना मृदिता तेन भारत 048a नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् 048c कर्णो वैकर्तनो राजन्वारयामास वै तदा 049a नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् 049c चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा 050a यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः 050c त्वं हि मूलमनर्थानां वैरस्य कलहस्य च 051a त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् 051c त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः 052a एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः 052c सदृशं राजपुत्रस्य धन्विनश्च विशेषतः 053a प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् 053c कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि 054a अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः 054c स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते 055a इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः 055c विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः 056a नकुलस्तु ततो विद्धः सूतपुत्रेण भारत 056c अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत 057a तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः 057c त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् 058a ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 058c आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः 059a अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् 059c कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः 060a ततः क्रुद्धो महाराज नकुलः परवीरहा 060c क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् 061a अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः 061c आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् 062a कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष 062c विस्मयं परमं जग्मू रथिनः सह दैवतैः 063a अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा 063c नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् 064a उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत 064c स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् 065a नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः 065c अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष 066a सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् 066c नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः 067a सञ्छाद्यमानः सहसा कर्णचापच्युतैः शरैः 067c चिच्छेद स शरांस्तूर्णं शरैरेव महारथः 068a ततो बाणमयं जालं विततं व्योम्न्यदृश्यत 068c खद्योतानां गणैरेव सम्पतद्भिर्यथा नभः 069a तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा 069c शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् 070a ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः 070c श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव 071a बाणजालावृते व्योम्नि छादिते च दिवाकरे 071c समसर्पत्ततो भूतं किञ्चिदेव विशाम्पते 072a निरुद्धे तत्र मार्गे तु शरसङ्घैः समन्ततः 072c व्यरोचतां महाभागौ बालसूर्याविवोदितौ 073a कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः 073c अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः 074a नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव 074c व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः 075a ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः 075c शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते 076a प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः 076c विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः 077a निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि 077c छादयन्तौ च सहसा परस्परवधैषिणौ 078a नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः 078c ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे 079a शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन 079c चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे 080a ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः 080c पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः 081a स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः 081c न चकार व्यथां राजन्भास्करो जलदैर्यथा 082a ततः प्रहस्याधिरथिः शरजालानि मारिष 082c प्रेषयामास समरे शतशोऽथ सहस्रशः 083a एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः 083c अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः 084a ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः 084c सारथिं पातयामास रथनीडाद्धसन्निव 085a तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः 085c यमस्य सदनं तूर्णं प्रेषयामास भारत 086a अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः 086c पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष 086e शतचन्द्रं ततश्चर्म सर्वोपकरणानि च 087a हताश्वो विरथश्चैव विवर्मा च विशाम्पते 087c अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः 088a तमुद्यतं महाघोरं परिघं तस्य सूतजः 088c व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः 089a व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः 089c आर्दयद्बहुशः कर्णो न चैनं समपीडयत् 090a स वध्यमानः समरे कृतास्त्रेण बलीयसा 090c प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः 091a तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः 091c सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत 092a ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः 092c परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः 092e यथैव च सितो मेघः शक्रचापेन शोभितः 093a तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि 093c वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः 094a मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव 094c सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव 094e गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ 095a एवमुक्त्वा महाराज व्यसर्जयत तं ततः 095c वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः 095e स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् 096a विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना 096c व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति 097a आरुरोह रथं चापि सूतपुत्रप्रतापितः 097c निःश्वसन्दुःखसन्तप्तः कुम्भे क्षिप्त इवोरगः 098a तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ 098c रथेनातिपताकेन चन्द्रवर्णहयेन च 099a तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते 099c दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् 100a तत्राकरोन्महाराज कदनं सूतनन्दनः 100c मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः 101a भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः 101c ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष 101e ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् 102a तत्र तत्र च सम्भ्रान्ता विचेरुर्मत्तकुञ्जराः 102c दवाग्निना परीताङ्गा यथैव स्युर्महावने 103a भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः 103c भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष 103e छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना 104a अपरे त्रासिता नागा नाराचशततोमरैः 104c तमेवाभिमुखा यान्ति शलभा इव पावकम् 105a अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः 105c क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् 106a उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः 106c राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः 107a हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः 107c चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि 108a निहतैः सादिभिश्चैव शूरैराहवशोभिभिः 108c अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् 109a प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप 109c हययोधानपश्याम कञ्चुकोष्णीषधारिणः 110a रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः 110c भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् 111a भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष 111c विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् 112a विहीनान्रथिनस्तत्र धावमानान्समन्ततः 112c सूर्यपुत्रशरैस्त्रस्तानपश्याम विशाम्पते 113a विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् 113c तावकाञ्जालसञ्छन्नानुरोघण्टाविभूषितान् 114a नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् 114c पदातीनन्वपश्याम धावमानान्समन्ततः 115a शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि 115c कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् 116a महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत 116c कर्णसायकनुन्नानां हतानां निशितैः शरैः 117a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 117c तमेवाभिमुखा यान्ति पतङ्गा इव पावकम् 118a तं दहन्तमनीकानि तत्र तत्र महारथम् 118c क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् 119a हतशेषास्तु ये वीराः पाञ्चालानां महारथाः 119c तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः 119e अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् 120a तापयामास तान्बाणैः सूतपुत्रो महारथः 120c मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः