001 धृतराष्ट्र उवाच 001a पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय 001c एकवीरेण कर्णेन द्रावितेषु परेषु च 002a समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः 002c सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना 003a तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् 003c स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय 004 सञ्जय उवाच 004a हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् 004c पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् 005a अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः 005c तथाश्वनरनागानां कृतं च कदनं महत् 005e इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने 006a एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् 006c वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः 007a ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना 007c दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः 008a ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम 008c कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः 009a धनूंषि बाणान्परिघानसितोमरपट्टिशान् 009c मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् 010a गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् 010c प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया 011a बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् 011c पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् 012a तेन शब्देन महता संहृष्टाश्चक्रुराहवम् 012c वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः 013a ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् 013c ताडितानां च पततां निनादः सुमहानभूत् 014a बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् 014c श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत 015a तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् 015c बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः 016a पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च 016c साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् 017a योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे 017c शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः 018a ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् 018c विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः 019a द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् 019c विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् 020a चर्मवर्माणि सञ्छिन्द्य निर्वापमिव देहिनाम् 020c विषेहुर्नास्य सम्पर्कं द्वितीयस्य पतत्रिणः 021a वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः 021c मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा 022a पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् 022c ममर्द कर्णस्तरसा सिंहो मृगगणानिव 023a ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष 023c यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः 024a व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः 024c प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् 025a सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः 025c गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः 026a समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः 026c नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष 027a ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः 027c वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि 028a दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसन्निभैः 028c जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः 029a परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा 029c शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः 030a ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा 030c सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह 031a पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः 031c क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव 032a रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः 032c नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः 033a ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः 033c क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः 034a नरांश्च नागांश्च रथान्हयान्ममृदुराहवे 034c अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः 035a सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः 035c पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा 036a प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः 036c अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः 036e सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते 037a मृदितानीव पद्मानि प्रम्लाना इव च स्रजः 037c हतानां वदनान्यासन्गात्राणि च महामते 038a रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप 038c समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम्