001 धृतराष्ट्र उवाच 001a प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः 001c न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् 002a तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् 002c शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च 003 सञ्जय उवाच 003a द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् 003c समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि 004a तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते 004c वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति 005a स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः 005c कर्णस्यानीकमवधीत्परिभूत इवान्तकः 006a तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् 006c कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् 007a व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् 007c सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् 008a द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् 008c सपादरक्षानवधीद्वज्रेणारीनिवारिहा 009a सशक्तिप्रासतूणीरानश्वारोहान्हयानपि 009c पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् 010a दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान् 010c विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् 011a चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे 011c दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् 012a आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् 012c प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् 013a राजन्कमलपत्राक्ष प्रधानायुधवाहन 013c वज्रसंहननप्रख्य प्रधानबलपौरुष 014a मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः 014c दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् 015a शरवर्षैर्महावेगैरमित्रानभिवर्षतः 015c मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे 016a रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् 016c मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः 017a महता रथघोषेण दिवं भूमिं च नादयन् 017c वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव 018a संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् 018c मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा 019a एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः 019c कर्णिना द्रोणतनयं विव्याध मलयध्वजः 020a मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः 020c स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः 021a ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः 021c गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् 022a तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः 022c चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् 023a अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः 023c धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः 024a विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा 024c ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः 024e इषुसम्बाधमाकाशमकरोद्दिश एव च 025a ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः 025c जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः 026a प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः 026c चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः 027a अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः 027c प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा 028a अष्टावष्टगवान्यूहुः शकटानि यदायुधम् 028c अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष 029a तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् 029c ये ये ददृशिरे तत्र विसञ्ज्ञाः प्रायशोऽभवन् 030a पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् 030c आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् 031a द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् 031c वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् 032a तस्य नानदतः केतुं चन्दनागुरुभूषितम् 032c मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् 033a सूतमेकेषुणा हत्वा महाजलदनिस्वनम् 033c धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् 034a अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च 034c प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया 035a हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशर्मगो बली 035c तमध्यतिष्ठन्मलयेश्वरो महान्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा 036a स तोमरं भास्कररश्मिसन्निभं बलास्त्रसर्गोत्तमयत्नमन्युभिः 036c ससर्ज शीघ्रं प्रतिपीडयन्गजं गुरोः सुतायाद्रिपतीश्वरो नदन् 037a मणिप्रतानोत्तमवज्रहाटकैरलङ्कृतं चांशुकमाल्यमौक्तिकैः 037c हतोऽस्यसावित्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् 038a तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विचूर्णितम् 038c महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा 039a ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर्यथा तथा 039c समादधे चान्तकदण्डसन्निभा निषूनमित्रान्तकरांश्चतुर्दश 040a द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहू च शिरोऽथ च त्रिभिः 040c जघान षड्भिः षडृतूत्तमत्विषः स पाण्ड्यराजानुचरान्महारथान् 041a सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ 041c भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस्तार्क्ष्यहताविवोरगौ 042a शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् 042c क्षितौ विबभ्राज पतत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा 043a समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः 043c सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः