001 सञ्जय उवाच 001a प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् 001c वक्रानुवक्रगमनादङ्गारक इव ग्रहः 002a पार्थबाणहता राजन्नराश्वरथकुञ्जराः 002c विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष 003a धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन् 003c पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च 004a भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः 004c चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् 005a वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा 005c आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः 006a तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् 006c त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा 007a तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः 007c उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् 008a तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् 008c मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे 009a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः 009c सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् 010a छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् 010c सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् 010e विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् 011a ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः 011c धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः 012a द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः 012c पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा 013a सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः 013c निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः 014a नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना 014c बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष 015a अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः 015c शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् 016a महार्हवर्माभरणा नानारूपाम्बरायुधाः 016c सरथाः सध्वजा वीरा हताः पार्थेन शेरते 017a विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः 017c गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् 018a अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् 018c नानाजनपदाध्यक्षाः सगणा जातमन्यवः 019a उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः 019c समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् 020a तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः 020c व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः 021a साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् 021c सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना 022a अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ 022c संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर 023a तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा 023c आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् 024a आदधत्सन्दधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः 024c विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि 025a आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् 025c हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् 026a ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये 026c अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् 027a एष पार्थ महारौद्रो वर्तते भरतक्षयः 027c पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् 028a पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् 028c महतामपविद्धानि कलापानिषुधीस्तथा 029a जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः 029c तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् 030a हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् 030c आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् 031a वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत 031c सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः 032a जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः 032c जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् 033a दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् 033c अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च 034a शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा 034c चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे 035a नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः 035c जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः 036a गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् 036c गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः 037a मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः 037c निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि 038a शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः 038c गतासुभिरमित्रघ्न संवृता रणभूमयः 039a बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः 039c सतलत्रैः सकेयूरैर्भाति भारत मेदिनी 040a साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः 040c हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् 041a बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः 041c निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा 042a कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः 042c भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः 043a रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् 043c अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् 044a योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् 044c निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् 045a वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः 045c वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् 046a विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा 046c भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः 047a वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि 047c बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः 048a विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् 048c अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि 049a चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः 049c छत्राणि चापविद्धानि चामरव्यजनानि च 050a चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः 050c कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः 050e वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् 051a सजीवांश्च नरान्पश्य कूजमानान्समन्ततः 051c उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशाम्पते 052a ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः 052c व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः 052e पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः 053a अपरे तत्र तत्रैव परिधावन्ति मानिनः 053c ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् 054a जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन 054c सन्निवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः 055a जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् 055c जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत 056a परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय 056c व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे 057a पश्यापरान्नरश्रेष्ठ सन्दष्टौष्ठपुटान्पुनः 057c भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः 058a एतत्तवैवानुरूपं कर्मार्जुन महाहवे 058c दिवि वा देवराजस्य त्वया यत्कृतमाहवे 059a एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने 059c गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् 060a शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् 060c रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् 061a प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः 061c पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः 062a स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि 062c न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा 063a गजवाजिमनुष्याणां शरीराणि शितैः शरैः 063c भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः 064a शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः 064c भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान्