001 सञ्जय उवाच 001a अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः 001c रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् 002a निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् 002c वाहयन्नेव तुरगान्गरुडानिलरंहसः 003a मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना 003c भगदत्तादनवरः शिक्षया च बलेन च 004a एनं हत्वा निहन्तासि पुनः संशप्तकानिति 004c वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति 005a स मागधानां प्रवरोऽङ्कुशग्रहो ग्रहेष्वसह्यो विकचो यथा ग्रहः 005c सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः 006a सुकल्पितं दानवनागसन्निभं महाभ्रसंह्रादममित्रमर्दनम् 006c रथाश्वमातङ्गगणान्सहस्रशः समास्थितो हन्ति शरैर्द्विपानपि 007a रथानधिष्ठाय सवाजिसारथीन्रथांश्च पद्भिस्त्वरितो व्यपोथयत् 007c द्विपांश्च पद्भ्यां चरणैः करेण च द्विपास्थितो हन्ति स कालचक्रवत् 008a नरांश्च कार्ष्णायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह 008c व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनडान्यथा तथा 009a अथार्जुनो ज्यातलनेमिनिस्वने मृदङ्गभेरीबहुशङ्खनादिते 009c नराश्वमातङ्गसहस्रनादितै रथोत्तमेनाभ्यपतद्द्विपोत्तमम् 010a ततोऽर्जुनं द्वादशभिः शरोत्तमैर्जनार्दनं षोडशभिः समार्दयत् 010c स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत् 011a ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् 011c पुनर्नियन्तॄन्सह पादगोप्तृभिस्ततस्तु चुक्रोध गिरिव्रजेश्वरः 012a ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा 012c अतीव चुक्षोभयिषुर्जनार्दनं धनञ्जयं चाभिजघान तोमरैः 013a अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः 013c क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैः समार्दयत् 014a स पार्थबाणैस्तपनीयभूषणैः समारुचत्काञ्चनवर्मभृद्द्विपः 014c तथा चकाशे निशि पर्वतो यथा दवाग्निना प्रज्वलितौषधिद्रुमः 015a स वेदनार्तोऽम्बुदनिस्वनो नदंश्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् 015c पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वज्रनिपातचूर्णितः 016a हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना 016c हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं धनञ्जयम् 017a स तोमरैरर्ककरप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरेव चार्जुनम् 017c समर्पयित्वा विननाद चार्दयंस्ततोऽस्य बाहू विचकर्त पाण्डवः 018a क्षुरप्रकृत्तौ सुभृशं सतोमरौ च्युताङ्गदौ चन्दनरूषितौ भुजौ 018c गजात्पतन्तौ युगपद्विरेजतुर्यथाद्रिशृङ्गात्पतितौ महोरगौ 019a अथार्धचन्द्रेण हृतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् 019c तच्छोणिताभं निपतद्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् 020a अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः 020c बिभेद पार्थः स पपात नानदन्हिमाद्रिकूटः कुलिशाहतो यथा 021a ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिनम् 021c तथा कृतास्तेन यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् 022a गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे 022c परस्परप्रस्खलिताः समाहता भृशं च तत्तत्कुलभाषिणो हताः 023a अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन् 023c अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः 024a न चेत्परित्रास्य इमाञ्जनान्भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितान् 024c तथाभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिषु त्वया 025a इतीव भूयश्च सुहृद्भिरीरिता निशम्य वाचः सुमनास्ततोऽर्जुनः 025c यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः