001 धृतराष्ट्र उवाच 001a यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः 001c अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे 002 सञ्जय उवाच 002a शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम 002c वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् 003a पार्थः संशप्तकगणं प्रविश्यार्णवसन्निभम् 003c व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् 004a शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः 004c पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च 004e सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव 005a सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् 005c सायुधान्सतनुत्राणान्पञ्चास्योरगसन्निभान् 005e बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे 006a धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् 006c पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः 007a द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे 007c शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् 008a तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः 008c वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः 008e निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः 009a तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् 009c त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा 010a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः 010c इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः 011a छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् 011c विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् 012a सञ्छिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् 012c विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् 012e रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः 013a विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् 013c महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् 014a सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः 014c देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् 014e केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी 015a चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः 015c यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ 016a ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ 016c सर्वभूतवरौ वीरौ नरनारायणावुभौ 017a इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत 017c अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे 018a अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् 018c सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् 019a यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् 019c ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे 020a एवमाचार्यपुत्रेण समाहूतो युयुत्सया 020c बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् 021a संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् 021c यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज 022a एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् 022c जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे 023a तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् 023c अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च 024a निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् 024c सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ 025a यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् 025c तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् 026a इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः 026c विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः 027a तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम् 027c चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः 028a सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ 028c त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् 029a ततः शरसहस्राणि प्रयुतान्यर्बुदानि च 029c ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् 030a इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष 030c बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः 031a कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च 031c रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः 032a शरजालेन महता विद्ध्वा केशवपाण्डवौ 032c ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः 033a तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् 033c पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति 034a वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि 034c एषोऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च 035a अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा 035c व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः 036a ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् 036c ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः 037a ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा 037c ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च 038a ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः 038c क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे 039a भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् 039c छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः 040a पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः 040c वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा 041a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 041c विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् 042a शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् 042c अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः 043a धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् 043c व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः 044a पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसन्निभैः 044c निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् 045a तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः 045c युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् 046a ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत् 046c अश्वत्थामाभिरूपाय गृहानतिथये यथा 047a अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् 047c अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् 048a ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः 048c नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव 049a सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः 049c लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव 050a ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् 050c स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः 051a अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् 051c सरश्मिजालनिकरौ युगान्तार्काविवासतुः 052a ततोऽर्जुनः सर्वतोधारमस्त्रमवासृजद्वासुदेवाभिगुप्तः 052c द्रौणायनिं चाभ्यहनत्पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः 053a स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा 053c बाणैः सुमुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत 054a द्रौणेरिषूनर्जुनः सन्निवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः 054c तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्छत् 055a धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम् 055c छत्राणि केतूंस्तुरगानथैषां वस्त्राणि माल्यान्यथ भूषणानि 056a चर्माणि वर्माणि मनोरथांश्च प्रियाणि सर्वाणि शिरांसि चैव 056c चिच्छेद पार्थो द्विषतां प्रमुक्तैर्बाणैः स्थितानामपराङ्मुखानाम् 057a सुकल्पिताः स्यन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः 057c पार्थेरितैर्बाणगणैर्निरस्तास्तैरेव सार्धं नृवरैर्निपेतुः 058a पद्मार्कपूर्णेन्दुसमाननानि किरीटमालामुकुटोत्कटानि 058c भल्लार्धचन्द्रक्षुरहिंसितानि प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् 059a अथ द्विपैर्देवपतिद्विपाभैर्देवारिदर्पोल्बणमन्युदर्पैः 059c कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् 060a तेषां द्विपानां विचकर्त पार्थो वर्माणि मर्माणि करान्नियन्तॄन् 060c ध्वजाः पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेः शिरांसि 061a तेषु प्ररुग्णेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः 061c प्रच्छादयामास महाभ्रजालैर्वायुः समुद्युक्तमिवांशुमन्तम् 062a ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ 062c प्रच्छादयित्व दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते 063a तमर्जुनस्तांश्च पुनस्त्वदीयानभ्यर्दितस्तैरविकृत्तशस्त्रैः 063c बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः 064a नाप्याददत्सन्दधन्नैव मुञ्चन्बाणान्रणेऽदृश्यत सव्यसाची 064c हतांश्च नागांस्तुरगान्पदातीन्संस्यूतदेहान्ददृशू रथांश्च 065a सन्धाय नाराचवरान्दशाशुद्रौणिस्त्वरन्नेकमिवोत्ससर्ज 065c तेषां च पञ्चार्जुनमभ्यविध्यन्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः 066a तैराहतौ सर्वमनुष्यमुख्यावसृक्क्षरन्तौ धनदेन्द्रकल्पौ 066c समाप्तविद्येन यथाभिभूतौ हतौ स्विदेतौ किमु मेनिरेऽन्ये 067a अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम् 067c कुर्याद्धि दोषं समुपेक्षितोऽसौ कष्टो भवेद्व्याधिरिवाक्रियावान् 068a तथेति चोक्त्वाच्युतमप्रमादी द्रौणिं प्रयत्नादिषुभिस्ततक्ष 068c छित्त्वाश्वरश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम् 069a आवृत्य नेयेष पुनस्तु युद्धं पार्थेन सार्धं मतिमान्विमृश्य 069c जानञ्जयं नियतं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः 070a प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः 070c मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते 071a संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ 071c वातोद्धूतपताकेन स्यन्दनेनौघनादिना