001 सञ्जय उवाच 001a भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा 001c त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् 002a अथैनं पुनराजघ्ने नवत्या निशितैः शरैः 002c सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् 003a भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः 003c रराज समरे राजन्रश्मिवानिव भास्करः 004a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 004c द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत 005a शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् 005c ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव 006a ललाटस्थं ततो बाणं धारयामास पाण्डवः 006c यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप 007a ततो द्रौणिं रणे भीमो यतमानं पराक्रमी 007c त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव 008a ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत 008c प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः 009a ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः 009c न चैनं कम्पयामास मातरिश्वेव पर्वतम् 010a तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः 010c नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् 011a तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ 011c रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ 012a आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ 012c स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः 013a कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे 013c कृतप्रतिकृते यत्नं चक्राते तावभीतवत् 014a व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ महारथौ 014c शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ 015a अभूतां तावदृश्यौ च शरजालैः समन्ततः 015c मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ 016a प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिन्दमौ 016c विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि 017a अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् 017c किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् 018a न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् 018c प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः 019a मण्डलानां विभागेषु गतप्रत्यागतेषु च 019c बभूव तुमुलं युद्धं तयोस्तत्र महामृधे 020a चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च 020c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 021a अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ 021c ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे 022a ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः 022c तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः 023a ततो घोरं महाराज अस्त्रयुद्धमवर्तत 023c ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् 024a ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत 024c द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः 025a बाणसङ्घावृतं घोरमाकाशं समपद्यत 025c उक्लापातकृतं यद्वत्प्रजानां सङ्क्षये नृप 026a बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः 026c सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् 027a तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः 027c अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् 028a सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् 028c नैतादृशं पुनर्युद्धं न भूतं न भविष्यति 029a अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ 029c अहो भीमे बलं भीममेतयोश्च कृतास्त्रता 030a अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः 030c स्थितावेतौ हि समरे कालान्तकयमोपमौ 031a रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ 031c यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे 032a श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः 032c सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् 032e अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे 033a तौ शूरौ समरे राजन्परस्परकृतागसौ 033c परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी 034a क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ 034c क्रोधात्सन्दष्टदशनौ सन्दष्टदशनच्छदौ 035a अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ 035c शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ 036a तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ 036c अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् 037a ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे 037c उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ 038a तौ सायकौ महाराज द्योतमानौ चमूमुखे 038c आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ 039a तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ 039c निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा 040a ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् 040c अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः 041a तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः 041c अपोवाह रथेनाजौ सारथिः शत्रुतापनम्