001 सञ्जय उवाच 001a श्रुतकर्मा महाराज चित्रसेनं महीपतिम् 001c आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः 002a अभिसारस्तु तं राजा नवभिर्निशितैः शरैः 002c श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः 003a श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे 003c नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् 004a एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः 004c नवत्या जगतीपालं छादयामास पत्रिभिः 005a प्रतिलब्य ततः सञ्ज्ञां चित्रसेनो महारथः 005c धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः 006a सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् 006c चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः 007a स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा 007c युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः 008a श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे 008c बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 009a श्रुतकर्मापि समरे नाराचेन समर्दितः 009c सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः 010a ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः 010c रराज समरे राजन्सपुष्प इव किंशुकः 011a श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः 011c शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् 012a अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः 012c विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः 013a ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः 013c जहार सशिरस्त्राणं शिरस्तस्य महात्मनः 014a तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः 014c यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले 015a राजानं निहतं दृष्ट्वा अभिसारं च मारिष 015c अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः 016a ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः 016c अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् 016e द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत 017a प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः 017c सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः 018a तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् 018c स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 019a प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः 019c पञ्चभिर्निशितैर्बाणैरथैनं सम्प्रजघ्निवान् 020a ततः शक्तिं महाराज हेमदण्डां दुरासदाम् 020c प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव 021a तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् 021c द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव 022a सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः 022c युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः 023a शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् 023c प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् 024a सा जघान हयांस्तस्य सारथिं च महारणे 024c रथं प्रमृद्य वेगेन धरणीमन्वपद्यत 025a एतस्मिन्नेव काले तु रथादाप्लुत्य भारत 025c शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलङ्कृताम् 026a तामापतन्तीं जग्राह चित्रो राजन्महामनाः 026c ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत 027a समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा 027c निर्भिद्य दक्षिणं बाहुं निपपात महीतले 027e पतिताभासयच्चैव तं देशमशनिर्यथा 028a प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् 028c प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया 029a स तस्य देवावरणं भित्त्वा हृदयमेव च 029c जगाम धरणीं तूर्णं महोरग इवाशयम् 030a स पपात तदा राजंस्तोमरेण समाहतः 030c प्रसार्य विपुलौ बाहू पीनौ परिघसन्निभौ 031a चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः 031c अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः 032a सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः 032c त एनं छादयामासुः सूर्यमभ्रगणा इव 033a तानपास्य महाबाहुः शरजालेन संयुगे 033c व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् 034a ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप 034c विप्रकीर्यन्त सहसा वातनुन्ना घना इव 035a विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः 035c द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् 036a ततः समागमो घोरो बभूव सहसा तयोः 036c यथा देवासुरे युद्धे वृत्रवासवयोरभूत्