001 सञ्जय उवाच 001a ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् 001c जघान समरे शूरः शरैः सन्नतपर्वभिः 002a तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् 002c कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः 003a कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् 003c नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः 004a तत्र भारत कर्णेन नाराचैस्ताडिता गजाः 004c नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश 005a वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष 005c नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे 006a भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् 006c विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् 007a श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः 007c प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः 008a दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् 008c संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जयः 009a धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये 009c शिखण्डी कृतवर्माणं समासादयदच्युतम् 010a श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव 010c दुःशासनं महाराज सहदेवः प्रतापवान् 011a केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता 011c सात्यकिः केकयौ चैव छादयामास भारत 012a तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् 012c विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे 013a शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे 013c सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः 014a तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् 014c छादयञ्शरवर्षेण वारयामास भारत 015a वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः 015c शैनेयस्य रथं तूर्णं छादयामासतुः शरैः 016a तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे 016c अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः 017a अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् 017c सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च 018a ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः 018c द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः 019a बाणान्धकारमभवत्तयो राजन्महाहवे 019c अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः 020a ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः 020c धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे 020e क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् 021a तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् 021c शम्बरस्य शिरो यद्वन्निहतस्य महारणे 021e शोषयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् 022a तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः 022c सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् 023a स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 023c ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् 024a स सात्यकिं पुनः क्रुद्धः केकयानां महारथः 024c शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् 025a स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः 025c रराज समरे राजन्सपत्र इव किंशुकः 026a सात्यकिः समरे विद्धः केकयेन महात्मना 026c केकयं पञ्चविंशत्या विव्याध प्रहसन्निव 027a शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ 027c व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ 027e यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ 028a मण्डलानि ततस्तौ च विचरन्तौ महारणे 028c अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे 029a केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः 029c सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः 030a चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् 030c चचार मण्डलान्येव गतप्रत्यागतानि च 031a तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् 031c अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः 032a सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे 032c निपपात महेष्वासो वज्रनुन्न इवाचलः 033a तं निहत्य रणे शूरः शैनेयो रथसत्तमः 033c युधामन्यो रथं तूर्णमारुरोह परन्तपः 034a ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः 034c केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः 035a सा वध्यमाना समरे केकयस्य महाचमूः 035c तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश