001 सञ्जय उवाच 001a ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे 001c बृहत्यौ सम्प्रजह्राते देवासुरचमूपमे 002a ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे 002c सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् 003a पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः 003c उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् 004a अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः 004c परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् 005a व्यायतायतबाहूनां व्यायतायतबाहुभिः 005c व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः 006a तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा 006c गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः 007a हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः 007c विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा 008a गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि 008c पोथिताः शतशः पेतुर्वीरा वीरतरै रणे 009a रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः 009c सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले 010a रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः 010c अश्वारोहैः पदाताश्च निहता युधि शेरते 011a रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः 011c रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः 012a रथाश्वेभनराणां च नराश्वेभरथैः कृतम् 012c पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् 013a तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च 013c अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः 014a धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 014c सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह 015a भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः 015c व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः 016a आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः 016c नानाविरागवसना गन्धचूर्णावचूर्णिताः 017a बद्धासयः पाशहस्ता वारणप्रतिवारणाः 017c समानमृत्यवो राजन्ननीकस्थाः परस्परम् 018a कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः 018c पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः 019a अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः 019c करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः 020a तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः 020c नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च 021a तस्य सैन्यस्य महतो महामात्रवरैर्वृतः 021c मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः 022a स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ 022c उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् 023a तस्यायसं वर्मवरं वररत्नविभूषितम् 023c तारोद्भासस्य नभसः शारदस्य समत्विषम् 024a स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः 024c चरन्मध्यन्दिनार्काभस्तेजसा व्यदहद्रिपून् 025a तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः 025c आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् 026a तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः 026c यदृच्छया द्रुमवतोर्महापर्वतयोरिव 027a संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् 027c बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः 028a व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः 028c प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् 029a क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः 029c तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः 030a समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ 030c वातोद्धूतपताकाभ्यां युयुधाते महाबलौ 031a तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः 031c शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः 032a क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे 032c निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् 033a स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः 033c क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् 034a ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् 034c ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् 035a ततः कुलूताधिपतिश्चापमायम्य सायकैः 035c दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् 036a अथ कार्मुकमादाय महाजलदनिस्वनम् 036c रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः 037a स शरौघार्दितो नागो भीमसेनेन संयुगे 037c निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः 038a तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् 038c महावातेरितं मेघं वातोद्धूत इवाम्बुदः 039a सन्निवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः 039c विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् 040a ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः 040c छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् 041a ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् 041c जघान चास्य द्विरदं नाराचैः सर्वमर्मसु 042a पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् 042c भीमसेनो रिपोर्नागं गदया समपोथयत् 043a तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् 043c उद्यतासिमुपायान्तं गदयाहन्वृकोदरः 044a स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् 044c वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा 045a निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् 045c प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ