001 धृतराष्ट्र उवाच 001a सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा 001c तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः 002a योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा 002c अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय 003 सञ्जय उवाच 003a कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ 003c योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् 004a महत्यपररात्रे तु तव पुत्रस्य मारिष 004c योगो योगेति सहसा प्रादुरासीन्महास्वनः 005a नागानां कल्पमानानां रथानां च वरूथिनाम् 005c सन्नह्यतां पदातीनां वाजिनां च विशाम्पते 006a क्रोशतां चापि योधानां त्वरितानां परस्परम् 006c बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा 007a ततः श्वेतपताकेन बालार्काकारवाजिना 007c हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना 008a तूणेन शरपूर्णेन साङ्गदेन वरूथिना 008c शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा 009a कार्मुकेणोपपन्नेन विमलादित्यवर्चसा 009c रथेनातिपताकेन सूतपुत्रो व्यदृश्यत 010a धमन्तं वारिजं तात हेमजालविभूषितम् 010c विधुन्वानं महच्चापं कार्तस्वरविभूषितम् 011a दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् 011c भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः 012a न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष 012c नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः 013a ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष 013c कर्णो निष्कासयामास कौरवाणां वरूथिनीम् 014a व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः 014c प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया 015a मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः 015c नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः 016a द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः 016c मध्ये दुर्योधनो राजा बलेन महता वृतः 017a वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः 017c नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः 018a पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः 018c त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः 019a अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः 019c महत्या सेनया सार्धं मद्रदेशसमुत्थया 020a दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः 020c वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा 021a पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा 021c चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ 022a ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे 022c धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् 023a पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे 023c कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः 024a हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः 024c फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम 025a एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः 025c सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः 025e चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः 026a तं हत्वाद्य महाबाहो विजयस्तव फल्गुन 026c उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः 026e एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि 027a भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः 027c अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् 028a वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः 028c दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः 029a मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः 029c नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः 030a चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 030c नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना 031a शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः 031c यथाभावं यथोत्साहं यथासत्त्वं च भारत 032a एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः 032c तावकाश्च महेष्वासा युद्धायैव मनो दधुः 033a दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे 033c निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः 034a तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः 034c धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप 035a ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः 035c सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः 036a सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः 036c सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् 037a हयहेषितशब्दाश्च वारणानां च बृंहितम् 037c रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप 038a न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ 038c दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् 039a उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे 039c योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा 040a तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ 040c अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ 041a नृत्यमाने तु ते सेने समेयातां परस्परम् 041c तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः 042a ततः प्रववृते युद्धं नरवारणवाजिनाम् 042c रथिनां च महाराज अन्योन्यं निघ्नतां दृढम्