001 सञ्जय उवाच 001a हते द्रोणे महेष्वासे तस्मिन्नहनि भारत 001c कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे 002a द्रवमाणे महाराज कौरवाणां बले तथा 002c व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह 003a तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ 003c द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् 004a स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः 004c युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत 005a लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा 005c सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् 006a कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् 006c कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा 007a पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च 007c वरासनेषूपविष्टाः सुखशय्यास्विवामराः 008a ततो दुर्योधनो राजा साम्ना परमवल्गुना 008c तानाभाष्य महेष्वासान्प्राप्तकालमभाषत 009a मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् 009c एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः 010a एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः 010c चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा 011a तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् 011c समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः 011e आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे 012a रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः 012c उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः 013a लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः 013c नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः 014a न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति 014c सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते 015a ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् 015c कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् 016a ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा 016c प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् 017a स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः 017c दुर्योधनो महाराज राधेयमिदमब्रवीत् 018a कर्ण जानामि ते वीर्यं सौहृदं च परं मयि 018c तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः 019a श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते 019c भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः 020a भीष्मद्रोणावतिरथौ हतौ सेनापती मम 020c सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः 021a वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये 021c मानितौ च मया वीरौ राधेय वचनात्तव 022a पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे 022c रक्षितास्तात भीष्मेण दिवसानि दशैव ह 023a न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः 023c शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे 024a हते तस्मिन्महाभागे शरतल्पगते तदा 024c त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः 025a तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे 025c स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् 026a निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम 026c त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् 027a भवानेव तु नः शक्तो विजयाय न संशयः 027c पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् 028a स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि 028c अभिषेचय सेनान्ये स्वयमात्मानमात्मना 029a देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः 029c तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे 029e जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् 030a अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् 030c द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः 030e तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् 031a भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः 031c भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह 032a यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा 032c व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः 033 कर्ण उवाच 033a उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ 033c जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् 034a सेनापतिर्भविष्यामि तवाहं नात्र संशयः 034c स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् 035 सञ्जय उवाच 035a एवमुक्तो महातेजास्ततो दुर्योधनो नृपः 035c उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः 035e सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः 036a ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा 036c दुर्योधनमुखा राजन्राजानो विजयैषिणः 036e शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः 037a तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः 037c मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः 038a औदुम्बरे समासीनमासने क्षौमसंवृतम् 038c शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः 039a जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे 039c इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ 040a जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः 040c उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः 041a न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः 041c कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने 042a न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः 042c आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः 043a अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः 043c व्यत्यरिच्यत रूपेण दिवाकर इवापरः 044a सेनापत्येन राधेयमभिषिच्य सुतस्तव 044c अमन्यत तदात्मानं कृतार्थं कालचोदितः 045a कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिन्दमः 045c योगमाज्ञापयामास सूर्यस्योदयनं प्रति 046a तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत 046c देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये