001 जनमेजय उवाच 001a श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः 001c नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् 002a प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् 002c तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः 003 वैशम्पायन उवाच 003a श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् 003c भूतसम्मोहनं भीमं मेरोः पर्यसनं यथा 004a चित्तमोहमिवायुक्तं भार्गवस्य महामतेः 004c पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः 005a दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः 005c संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः 006a महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् 006c कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः 007a सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः 007c नेदमस्तीति सञ्चिन्त्य कर्णस्य निधनं प्रति 008a प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् 008c शोकाग्निना दह्यमानो धम्यमान इवाशयः 009a विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः 009c विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः 010 धृतराष्ट्र उवाच 010a सञ्जयाधिरथो वीरः सिंहद्विरदविक्रमः 010c वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः 011a वृषभो वृषभस्येव यो युद्धे न निवर्तते 011c शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा 012a यस्य ज्यातलशब्देन शरवृष्टिरवेण च 012c रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे 013a यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् 013c दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः 014a स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे 014c निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः 015a यो नामन्यत वै नित्यमच्युतं न धनञ्जयम् 015c न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः 016a शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ 016c अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे 017a इति यः सततं मन्दमवोचल्लोभमोहितम् 017c दुर्योधनमपादीनं राज्यकामुकमातुरम् 018a यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् 018c गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् 019a पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् 019c सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् 020a वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा 020c यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा 021a उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः 021c वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः 022a यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः 022c अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् 023a तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना 023c शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा 024a ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय 024c वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् 025a ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराजयम् 025c को मदन्यः पुमाल्ँलोके न जह्यात्सूत जीवितम् 026a विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे 026c न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय 027 सञ्जय उवाच 027a श्रिया कुलेन यशसा तपसा च श्रुतेन च 027c त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् 028a श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव 028c पर्यवस्थापयात्मानं मा विषादे मनः कृथाः 029 धृतराष्ट्र उवाच 029a दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् 029c यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे 030a हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् 030c प्रताप्य शरवर्षेण दिशः सर्वा महारथः 031a मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् 031c स कथं निहतः शेते वातरुग्ण इव द्रुमः 032a शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः 032c चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते 033a कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च 033c अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय 034a वज्रसारमयं नूनं हृदयं सुदृढं मम 034c यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते 035a आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा 035c यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः 036a धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य सञ्जय 036c अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् 036e कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः 037a अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः 037c परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् 037e दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि सञ्जय 038a तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः 038c नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि 039a स हि पारं महानासीत्पुत्राणां मम सञ्जय 039c युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् 040a को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् 040c रथादतिरथो नूनमपतत्सायकार्दितः 041a पर्वतस्येव शिखरं वज्रपातविदारितम् 041c शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः 041e मातङ्ग इव मत्तेन मातङ्गेन निपातितः 042a यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् 042c सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् 043a स हि वीरो महेष्वासः पुत्राणामभयङ्करः 043c शेते विनिहतो वीरः शक्रेणेव यथा बलः 044a पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् 044c दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः 045a अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते 045c अहो नु बलवद्दैवं कालश्च दुरतिक्रमः 046a पलायमानः कृपणं दीनात्मा दीनपौरुषः 046c कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम 047a कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे 047c कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः 048a युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा 048c दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् 049a शरतल्पे शयानेन भीष्मेण सुमहात्मना 049c पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् 050a जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह 050c अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः 051a प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च 051c भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह 052a अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः 052c तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः 053a अहं तु निहतामात्यो हतपुत्रश्च सञ्जय 053c द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः 054a यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय 054c विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः 055a छिन्नपक्षतया तस्य गमनं नोपपद्यते 055c तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः 056a क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः 056c कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः 057a दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः 057c स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः 058a तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना 058c के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय 059a कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे 059c उक्तं त्वया पुरा वीर यथा वीरा निपातिताः 060a भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः 060c पातयामास समरे सर्वशस्त्रभृतां वरम् 061a तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि 061c युक्तयोगो महेष्वासः शरैर्बहुभिराचितः 061e निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय 062a अन्तरेण हतावेतौ छलेन च विशेषतः 062c अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ 063a भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् 063c न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते 064a कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च 064c कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् 065a यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् 065c प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः 066a यस्य सर्पमुखो दिव्यः शरः कनकभूषणः 066c अशेत निहतः पत्री चन्दनेष्वरिसूदनः 067a भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् 067c जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत 068a यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः 068c सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः 069a यश्च नागायुतप्राणं वातरंहसमच्युतम् 069c विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् 070a सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः 070c कृपया विरथं कृत्वा नाहनद्धर्मवित्तया 071a यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् 071c घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् 072a एतानि दिवसान्यस्य युद्धे भीतो धनञ्जयः 072c नागमद्द्वैरथं वीरः स कथं निहतो रणे 073a रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत 073c न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः 074a को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः 074c विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे 074e जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् 075a ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् 075c अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् 075e न ह्यन्यदनुपश्यामि कारणं तस्य नाशने 076a न हन्यामर्जुनं यावत्तावत्पादौ न धावये 076c इति यस्य महाघोरं व्रतमासीन्महात्मनः 077a यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः 077c त्रयोदश समा निद्रां न लेभे पुरुषर्षभः 078a यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः 078c मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् 079a तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् 079c दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि 080a यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् 080c अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत 081a यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः 081c स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय 082a तस्य नाहं वधं मन्ये देवैरपि सवासवैः 082c प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः 083a न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः 083c पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति 084a अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः 084c न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः 085a यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च 085c वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् 086a स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् 086c दुःशासनं च निहतं मन्ये शोचति पुत्रकः 087a हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना 087c जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् 088a दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे 088c प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः 089a पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् 089c विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः 090a अनेयश्चाभिमानेन बालबुद्धिरमर्षणः 090c हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् 091a भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे 091c रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् 092a सह गान्धारराजेन सभायां यदभाषत 092c कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् 093a द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् 093c शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् 094a कृतवर्मा महेष्वासः सात्वतानां महारथः 094c कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत 095a ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते 095c धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः 096a युवा रूपेण सम्पन्नो दर्शनीयो महायशाः 096c अश्वत्थामा हते कर्णे किमभाषत सञ्जय 097a आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् 097c कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् 098a मद्रराजो महेष्वासः शल्यः समितिशोभनः 098c दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः 099a ये च केचन राजानः पृथिव्यां योद्धुमागताः 099c वैकर्तनं हतं दृष्ट्वा किमभाषन्त सञ्जय 100a कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे 100c किं वो मुखमनीकानामासीत्सञ्जय भागशः 101a मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः 101c वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय 102a केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे 102c वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः 103a के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् 103c कथं च वः समेतानां हतः कर्णो महारथः 104a पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् 104c सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् 105a स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा 105c व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय 106a मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय 106c अवशेषं न पश्यामि ककुदे मृदिते सति 107a तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ 107c भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे 108a न मृष्यामि च राधेयं हतमाहवशोभिनम् 108c यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् 109a द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह 109c सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय 110a यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् 110c यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्