001 वैशम्पायन उवाच 001a एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः 001c अब्रवीत्सञ्जयं सूतं शोकव्याकुलचेतनः 002a दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः 002c हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति 003a कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः 003c कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः 004 सञ्जय उवाच 004a हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् 004c हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः 005a ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् 005c निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः 006a हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना 006c अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः 007a विविंशतिर्महाराज राजपुत्रो महाबलः 007c आनर्तयोधाञ्शतशो निहत्य निहतो रणे 008a अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् 008c क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् 009a घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् 009c प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः 010a विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ 010c कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् 011a सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै 011c वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने 012a अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः 012c अर्जुनेन हतो राजन्महावीर्यो जयद्रथः 013a तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः 013c वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः 014a तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः 014c द्रौपदेयेन विक्रम्य गमितो यमसादनम् 015a किरातानामधिपतिः सागरानूपवासिनाम् 015c देवराजस्य धर्मात्मा प्रियो बहुमतः सखा 016a भगदत्तो महीपालः क्षत्रधर्मरतः सदा 016c धनञ्जयेन विक्रम्य गमितो यमसादनम् 017a तथा कौरवदायादः सौमदत्तिर्महायशाः 017c हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि 018a श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः 018c चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना 019a तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः 019c दुःशासनो महाराज भीमसेनेन पातितः 020a यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् 020c सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना 021a कोसलानामधिपतिर्हत्वा बहुशतान्परान् 021c सौभद्रेण हि विक्रम्य गमितो यमसादनम् 022a बहुशो योधयित्वा च भीमसेनं महारथः 022c चित्रसेनस्तव सुतो भीमसेनेन पातितः 023a मद्रराजात्मजः शूरः परेषां भयवर्धनः 023c असिचर्मधरः श्रीमान्सौभद्रेण निपातितः 024a समः कर्णस्य समरे यः स कर्णस्य पश्यतः 024c वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः 025a अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः 025c धनञ्जयेन विक्रम्य गमितो यमसादनम् 026a नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः 026c विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः 027a शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष 027c हतो रुक्मरथो राजन्भ्राता मातुलजो युधि 028a राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः 028c पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ 029a भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः 029c श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः 030a पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः 030c भीमसेनेन विक्रम्य गमितो यमसादनम् 031a जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः 031c मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना 032a पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः 032c गदया भीमसेनेन निहतौ शूरमानिनौ 033a दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः 033c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 034a सचिवो वृषवर्मा ते सूतः परमवीर्यवान् 034c भीमसेनेन विक्रम्य गमितो यमसादनम् 035a नागायुतबलो राजा नागायुतबलो महान् 035c सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना 036a वसातयो महाराज द्विसाहस्राः प्रहारिणः 036c शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः 037a अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः 037c शिबयश्च रथोदाराः कलिङ्गसहिता हताः 038a गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः 038c श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये 038e ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् 039a स्यालौ तव महाराज राजानौ वृषकाचलौ 039c त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना 040a उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा 040c शाल्वराजो महाराज भीमसेनेन पातितः 041a ओघवांश्च महाराज बृहन्तः सहितो रणे 041c पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् 042a तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते 042c निहतो गदया राजन्भीमसेनेन संयुगे 043a तथा राजा महेष्वासो जलसन्धो महाबलः 043c सुमहत्कदनं कृत्वा हतः सात्यकिना रणे 044a अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः 044c घटोत्कचेन विक्रम्य गमितो यमसादनम् 045a राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः 045c केकयाः सर्वशश्चापि निहताः सव्यसाचिना 046a मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः 046c यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः 047a मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः 047c प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष 048a पत्तीनां निहताः सङ्घा हयानामयुतानि च 048c रथव्रजाश्च निहता हताश्च वरवारणाः 049a सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः 049c कालेन महता यत्ताः कुले ये च विवर्धिताः 050a ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा 050c अन्ये तथामितबलाः परस्परवधैषिणः 051a एते चान्ये च बहवो राजानः सगणा रणे 051c हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि 051e एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे 052a महेन्द्रेण यथा वृत्रो यथा रामेण रावणः 052c यथा कृष्णेन निहतो मुरो रणनिपातितः 052e कार्तवीर्यश्च रामेण भार्गवेण हतो यथा 053a सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः 053c रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् 054a तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः 054c सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः 055a जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः 055c तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे 056a उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः 056c तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् 057a पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा 057c अहितानीव चीर्णानि तेषां ते फलमागतम् 058 धृतराष्ट्र उवाच 058a आख्याता मामकास्तात निहता युधि पाण्डवैः 058c निहतान्पाण्डवेयानां मामकैर्ब्रूहि सञ्जय 059 सञ्जय उवाच 059a कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः 059c सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः 060a समः किरीटिना सङ्ख्ये वीर्येण च बलेन च 060c सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे 061a तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ 061c पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे 062a यो बाल एव समरे सम्मितः सव्यसाचिना 062c केशवेन च दुर्धर्षो बलदेवेन चाभिभूः 063a स एष कदनं कृत्वा महद्रणविशारदः 063c परिवार्य महामात्रैः षड्भिः परमकै रथैः 063e अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः 064a तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् 064c दौःशासनिर्महाराज सौभद्रं हतवान्रणे 065a बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः 065c दुःशासनेन विक्रम्य गमितो यमसादनम् 066a मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ 066c पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ 067a अंशुमान्भोजराजस्तु सहसैन्यो महारथः 067c भारद्वाजेन विक्रम्य गमितो यमसादनम् 068a चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् 068c चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि 069a वृकोदरसमो युद्धे दृढः केकयजो युधि 069c केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः 070a जनमेजयो गदायोधी पार्वतीयः प्रतापवान् 070c दुर्मुखेन महाराज तव पुत्रेण पातितः 071a रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव 071c द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः 072a नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते 072c कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् 073a पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः 073c सङ्ग्रामनिर्जिताल्ँलोकान्गमितो द्रोणसायकैः 074a अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः 074c वसुदानस्य पुत्रेण न्यासितो देहमाहवे 075a अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् 075c निहत्य शतशः शूरान्परैर्विनिहतौ रणे 076a क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष 076c द्रोणेन परमेष्वासौ गमितौ यमसादनम् 077a शिखण्डितनयो युद्धे क्षत्रदेवो युधाम्पतिः 077c लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत 078a सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ 078c प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे 079a वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे 079c बाह्लिकेन महाराज कौरवेण निपातितः 080a धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः 080c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 081a तथा सत्यधृतिस्तात कृत्वा कदनमाहवे 081c पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् 082a पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते 082c निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि 083a तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् 083c सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः 084a श्रेणिमांश्च महाराज युध्यमानः पराक्रमी 084c कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् 085a तथैव युधि विक्रान्तो मागधः परवीरहा 085c भीष्मेण निहतो राजन्युध्यमानः पराक्रमी 086a वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे 086c भारद्वाजेन विक्रम्य गमितो यमसादनम् 087a एते चान्ये च बहवः पाण्डवानां महारथाः 087c हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि 088 धृतराष्ट्र उवाच 088a हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर 088c अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन 089a एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः 089c अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः 090 सञ्जय उवाच 090a यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि 090c दिव्यानि राजन्निहितानि चैव द्रोणेन वीरद्विजसत्तमेन 091a महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः 091c स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे 092a आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः 092c स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे 093a शारद्वतो गौतमश्चापि राजन्महाबलो बहुचित्रास्त्रयोधी 093c धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योत्स्यमानः प्रगृह्य 094a आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् 094c स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य सत्यां वाचं तां चिकीर्षुस्तरस्वी 095a तेजोवधं सूतपुत्रस्य सङ्ख्ये प्रतिश्रुत्वाजातशत्रोः पुरस्तात् 095c दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे 096a आजानेयैः सैन्धवैः पार्वतीयैर्नदीजकाम्बोजवनायुबाह्लिकैः 096c गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वदर्थे 097a तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीर 097c व्यवस्थितः कुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै 098a दुर्योधनो नागकुलस्य मध्ये महावीर्यः सह सैन्यप्रवीरैः 098c रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योद्धुकामः 099a स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा 099c पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः 100a तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः 100c व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धुकामौ 101a ह्रीनिषेधा भरता राजपुत्राश्चित्रायुधः श्रुतकर्मा जयश्च 101c शलश्च सत्यव्रतदुःशलौ च व्यवस्थिता बलिनो योद्धुकामाः 102a कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः 102c पत्री हयी नागरथप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे 103a वीरः श्रुतायुश्च श्रुतायुधश्च चित्राङ्गदश्चित्रवर्मा स वीरः 103c व्यवस्थिता ये तु सैन्ये नराग्र्याः प्रहारिणो मानिनः सत्यसन्धाः 104a कर्णात्मजः सत्यसेनो महात्मा व्यवस्थितः समरे योद्धुकामः 104c अथापरौ कर्णसुतौ वरार्हौ व्यवस्थितौ लघुहस्तौ नरेन्द्र 104e बलं महद्दुर्भिदमल्पधैर्यैः समाश्रितौ योत्स्यमानौ त्वदर्थे 105a एतैश्च मुख्यैरपरैश्च राजन्योधप्रवीरैरमितप्रभावैः 105c व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय 106 धृतराष्ट्र उवाच 106a आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् 106c इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः 107 वैशम्पायन उवाच 107a एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः 107c हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् 107e श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः 108a मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय 108c व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् 108e नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः