001 वैशम्पायन उवाच 001a एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः 001c शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् 001e विह्वलः पतितो भूमौ नष्टचेता इव द्विपः 002a तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे 002c आर्तनादो महानासीत्स्त्रीणां भरतसत्तम 003a स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः 003c शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः 004a राजानं च समासाद्य गान्धारी भरतर्षभ 004c निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च 005a ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः 005c मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् 006a समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः 006c कदल्य इव वातेन धूयमानाः समन्ततः 007a राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् 007c आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् 008a स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृप 008c उन्मत्त इव राजा स स्थितस्तूष्णीं विशाम्पते 009a ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः 009c स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् 010a गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च 010c ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः 011a संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः 011c पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् 012a यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया 012c कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् 012e ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् 013a एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय 013c हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः 013e भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः 014a दुःशासनश्च निहतः पाण्डवेन यशस्विना 014c पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे