001 सञ्जय उवाच 001a हते द्रोणे महेष्वासे तव पुत्रा महारथाः 001c बभूवुराश्वस्तमुखा विषण्णा गतचेतसः 002a अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते 002c अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् 003a तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत 003c ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः 004a शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः 004c प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् 005a तानि बद्धान्यनिष्टानि लम्बमानानि भारत 005c अदृश्यन्त महाराज नक्षत्राणि यथा दिवि 006a तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् 006c स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् 007a भवतां बाहुवीर्यं हि समाश्रित्य मया युधि 007c पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् 008a तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते 008c युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः 009a जयो वापि वधो वापि युध्यमानस्य संयुगे 009c भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः 010a पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि 010c प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् 011a यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः 011c निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा 012a येन नागायुतप्राणो भीमसेनो महाबलः 012c मानुषेणैव युद्धेन तामवस्थां प्रवेशितः 013a येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः 013c अमोघया रणे शक्त्या निहतो भैरवं नदन् 014a तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः 014c बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे 015a द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः 015c पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः 016a सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः 016c शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् 017a एवमुक्ते महाराज कर्णो वैकर्तनो नृपः 017c सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः 018a स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् 018c केकयानां विदेहानामकरोत्कदनं महत् 019a तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् 019c अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः 020a स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः 020c हत्वा सहस्रशो योधानर्जुनेन निपातितः