001 वैशम्पायन उवाच 001a ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः 001c भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् 002a ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः 002c पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् 003a मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसम्मितैः 003c रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे 004a विशेषतः सूतपुत्रो राजा चैव सुयोधनः 004c दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे 005a ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् 005c चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे 006a सहितास्ते निशायां तु दुर्योधननिवेशने 006c अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् 007a यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् 007c तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः 008a चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् 008c कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् 009a ततः प्रभाते विमले स्थिता दिष्टस्य शासने 009c चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा 010a ते कृत्वावश्यकार्याणि समाश्वस्य च भारत 010c योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः 011a कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः 011c वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः 012a निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः 012c वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः 013a तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः 013c शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः 014a ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् 014c कुरूणां पाण्डवानां च परस्परवधैषिणाम् 015a तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः 015c कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् 016a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः 016c पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः 017a ततस्तत्सञ्जयः सर्वं गत्वा नागाह्वयं पुरम् 017c आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले 018 जनमेजय उवाच 018a आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः 018c यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः 019a स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् 019c कथं द्विजवर प्राणानधारयत दुःखितः 020a यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः 020c तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् 021a दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् 021c यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः 022a तथा शान्तनवं वृद्धं ब्रह्मन्बाह्लिकमेव च 022c द्रोणं च सोमदत्तं च भूरिश्रवसमेव च 023a तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् 023c श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज 024a एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन 024c न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 025 वैशम्पायन उवाच 025a हते कर्णे महाराज निशि गावल्गणिस्तदा 025c दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे 026a स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः 026c जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् 027a स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् 027c ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह 028a सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् 028c हा कष्टमिति चोक्त्वा स ततो वचनमाददे 029a सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् 029c स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि 030a हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः 030c अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् 031a रामनारदकण्वैश्च हितमुक्तं सभातले 031c नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् 032a सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः 032c निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् 033a तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् 033c सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् 034a गाङ्गेये निहते शूरे दिव्यास्त्रवति सञ्जय 034c द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः 035a यो रथानां सहस्राणि दंशितानां दशैव हि 035c अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः 036a स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना 036c पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः 037a भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने 037c साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः 038a यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः 038c महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः 039a तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे 039c सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः 040a त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः 040c तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः 041a संशप्तकानां च बले पाण्डवेन महात्मना 041c धनञ्जयेन विक्रम्य गमिते यमसादनम् 042a नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः 042c हतशेषेष्वनीकेषु किमकुर्वत मामकाः 043a विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे 043c प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे 044a दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः 044c मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च 045a मत्पुत्रशेषस्य तथा तथान्येषां च सञ्जय 045c विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् 046a एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे 046c आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः 047 सञ्जय उवाच 047a पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष 047c तच्छ्रुत्वा मा व्यथां कार्षीदिष्टे न व्यथते मनः 048a यस्मादभावी भावी वा भवेदर्थो नरं प्रति 048c अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः 049 धृतराष्ट्र उवाच 049a न व्यथा शृण्वतः काचिद्विद्यते मम सञ्जय 049c दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम्