001 धृतराष्ट्र उवाच 001a तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय 001c मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् 002 सञ्जय उवाच 002a तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै 002c कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः 003a दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् 003c यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ 004a सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् 004c अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् 005a ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते 005c तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने 006a न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति 006c शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा 007a तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः 007c तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् 008a भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः 008c शूलपाणिर्महान्कृष्ण तेजसा सूर्यसन्निभः 009 व्यास उवाच 009a प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् 009c भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् 010a ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् 010c तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् 011a महादेवं महात्मानमीशानं जटिलं शिवम् 011c त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् 011e दातारं चैव भक्तानां प्रसादविहितान्वरान् 012a तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः 012c वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः 013a महाकाया महोत्साहा महाकर्णास्तथापरे 013c आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः 014a ईदृशैः स महादेवः पूज्यमानो महेश्वरः 014c स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः 014e तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे 015a द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः 015c कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् 015e ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् 016a स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते 016c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 017a गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः 017c विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 018a तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि 018c ये चान्ये मानवा लोके ये च स्वर्गजितो नराः 019a ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् 019c इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् 020a नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा 020c रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे 021a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 021c याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च 022a काम्याय हरिनेत्राय स्थाणवे पुरुषाय च 022c हरिकेशाय मुण्डाय कृशायोत्तरणाय च 023a भास्कराय सुतीर्थाय देवदेवाय रंहसे 023c बहुरूपाय शर्वाय प्रियाय प्रियवाससे 024a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 024c गिरिशाय प्रशान्ताय पतये चीरवाससे 025a हिरण्यबाहवे चैव उग्राय पतये दिशाम् 025c पर्जन्यपतये चैव भूतानां पतये नमः 026a वृक्षाणां पतये चैव अपां च पतये तथा 026c वृक्षैरावृतकायाय सेनान्ये मध्यमाय च 027a स्रुवहस्ताय देवाय धन्विने भार्गवाय च 027c बहुरूपाय विश्वस्य पतये चीरवाससे 028a सहस्रशिरसे चैव सहस्रनयनाय च 028c सहस्रबाहवे चैव सहस्रचरणाय च 029a शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् 029c उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् 029e प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् 030a कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् 030c वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् 031a वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् 031c वृषायुधं वृषशरं वृषभूतं महेश्वरम् 032a महोदरं महाकायं द्वीपिचर्मनिवासिनम् 032c लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् 033a त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् 033c पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् 033e प्रपद्ये शरणं देवं शरण्यं चीरवाससम् 034a नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा 034c सुवाससे नमो नित्यं सुव्रताय सुधन्विने 035a स्रुवहस्ताय देवाय सुखधन्वाय धन्विने 035c धन्वन्तराय धनुषे धन्वाचार्याय धन्विने 036a उग्रायुधाय देवाय नमः सुरवराय च 036c नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने 037a नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने 037c नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः 038a वनस्पतीनां पतये नराणां पतये नमः 038c अपां च पतये नित्यं यज्ञानां पतये नमः 039a पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च 039c नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः 040a कर्माणि चैव दिव्यानि महादेवस्य धीमतः 040c तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् 041a न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः 041c सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः 042a विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा 042c धनुषा बाणमुत्सृज्य सघोषं विननाद च 043a ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा 043c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 044a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 044c बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः 045a आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा 045c पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः 046a अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः 046c जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः 047a चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च 047c ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः 048a पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव 048c पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् 049a ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् 049c पुनश्च सन्दधे दीप्तं देवानां निशितं शरम् 050a रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् 050c भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे 051a तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा 051c यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति 052a असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि 052c आयसं राजतं चैव सौवर्णमपरं महत् 053a आयसं तारकाक्षस्य कमलाक्षस्य राजतम् 053c सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च 054a न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि 054c अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः 055a ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः 055c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 055e निपातयिष्यसे चैनानसुरान्भुवनेश्वर 056a स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया 056c अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् 057a यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै 057c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 058a पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् 058c शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् 059a बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः 059c उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् 060a बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः 060c स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः 061a न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् 061c सप्रजापतयः सर्वे बालार्कसदृशप्रभम् 062a अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् 062c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः 063a ततः प्रसादयामासुरुमां रुद्रं च ते सुराः 063c अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः 064a तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः 064c देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः 065a स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् 065c स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः 066a स भवः स च पर्जन्यो महादेवः स चानघः 066c स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः 067a स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च 067c मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः 068a स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् 068c सर्वासां देवतानां च धारयत्यवपुर्वपुः 069a सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः 069c शतधा सहस्रधा चैव तथा शतसहस्रधा 070a ईदृशः स महादेवो भूयश्च भगवानजः 070c न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः 071a सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् 071c स मोचयति सुप्रीतः शरण्यः शरणागतान् 072a आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् 072c स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः 073a सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते 073c स चैव व्याहृते लोके मनुष्याणां शुभाशुभे 074a ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते 074c महेश्वरश्च भूतानां महतामीश्वरश्च सः 075a बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् 075c अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत 076a एष चैव श्मशानेषु देवो वसति नित्यशः 076c यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् 077a अस्य दीप्तानि रूपाणि घोराणि च बहूनि च 077c लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च 078a नामधेयानि लोकेषु बहून्यत्र यथार्थवत् 078c निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा 079a वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् 079c नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः 080a स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः 080c स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् 081a ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा 081c प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् 082a सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः 082c तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः 083a नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् 083c महयन्ति च लोकाश्च महेश्वर इति स्मृतः 084a ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा 084c लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् 085a पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः 085c सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः 086a यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् 086c स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः 087a एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा 087c क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः 088a धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते 088c विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः 089a तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः 089c द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः 090a समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु 090c शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः 091a सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा 091c यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः 092a दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् 092c स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः 093a विषमस्थः शरीरेषु समश्च प्राणिनामिह 093c स वायुर्विषमस्थेषु प्राणापानशरीरिषु 094a पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् 094c लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते 095a ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः 095c आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते 096a तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः 096c भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते 097a ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया 097c यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः 098a यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् 098c मांसशोणितमज्जादो यत्ततो रुद्र उच्यते 099a एष देवो महादेवो योऽसौ पार्थ तवाग्रतः 099c सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् 100a एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः 100c येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः 101a धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम् 101c देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् 102a सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् 102c सर्वपापप्रशमनं सर्वदुःखभयापहम् 103a चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा 103c विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते 104a चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् 104c पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः 105a भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा 105c वरान्स कामाल्ँलभते प्रसन्ने त्र्यम्बके नरः 106a गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः 106c यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः 107 सञ्जय उवाच 107a एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा 107c जगाम भरतश्रेष्ठ यथागतमरिन्दम