001 सञ्जय उवाच 001a तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः 001c न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया 002a ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे 002c संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च 003a एक एव तु बीभत्सुः सोमकावयवैः सह 003c मत्स्यैरन्यैश्च सन्धाय कौरवैः सन्न्यवर्तत 004a ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् 004c सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् 005a या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् 005c धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते 005e यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय 006a स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः 006c कालानलसमप्रख्यो द्विषतामन्तको युधि 006e समासादय पाञ्चाल्यं मां चापि सहकेशवम् 007 धृतराष्ट्र उवाच 007a आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय 007c प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः 008a न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् 008c अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् 009 सञ्जय उवाच 009a युवराजे हते चैव वृद्धक्षत्रे च पौरवे 009c इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने 010a धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते 010c युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते 011a अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो 011c अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत 012a तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् 012c मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा 013a एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप 013c पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा 013e द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः 014a स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् 014c देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे 015a दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः 015c सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् 015e सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा 016a ततस्तुमुलमाकाशे शरवर्षमजायत 016c ववुश्च शिशिरा वाताः सूर्यो नैव तताप च 017a चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् 017c रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे 018a पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः 018c परमं प्रयतात्मानो न शान्तिमुपलेभिरे 019a भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् 019c त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् 020a शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा 020c निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः 021a जलजानि च सत्त्वानि दह्यमानानि भारत 021c न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः 022a दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः 022c उच्चावचा निपेतुर्वै गरुडानिलरंहसः 023a तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः 023c प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः 024a दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः 024c नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् 025a अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः 025c त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः 026a द्रुमाणां शिखराणीव दावदग्धानि मारिष 026c अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो 026e अपतन्त रथौघाश्च तत्र तत्र सहस्रशः 027a तत्सैन्यं भगवानग्निर्ददाह युधि भारत 027c युगान्ते सर्वभूतानि संवर्तक इवानलः 028a दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे 028c प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे 029a ततस्तूर्यसहस्राणि नानालिङ्गानि भारत 029c तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः 030a कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः 030c तमसा संवृते लोके नादृश्यत महाहवे 031a नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् 031c यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा 032a अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् 032c सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना 033a ततो मुहूर्तादिव तत्तमो व्युपशशाम ह 033c प्रववौ चानिलः शीतो दिशश्च विमलाभवन् 034a तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् 034c अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया 035a ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ 035c सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ 036a सपताकध्वजहयः सानुकर्षवरायुधः 036c प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः 037a ततः किलकिलाशब्दः शङ्खभेरीरवैः सह 037c पाण्डवानां प्रहृष्टानां क्षणेन समजायत 038a हताविति तयोरासीत्सेनयोरुभयोर्मतिः 038c तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ 039a तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ 039c दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् 040a विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः 040c मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष 041a चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः 041c निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा 042a ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः 042c धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् 043a ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् 043c आवासं च सरस्वत्याः स वै व्यासं ददर्श ह 044a तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह 044c सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् 045a भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् 045c अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः 046a अधरोत्तरमेतद्वा लोकानां वा पराभवः 046c यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः 047a नासुरामरगन्धर्वा न पिशाचा न राक्षसाः 047c न सर्पयक्षपतगा न मनुष्याः कथञ्चन 048a उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् 048c तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् 049a केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ 049c एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् 050 व्यास उवाच 050a महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् 050c तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु 051a योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः 051c अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् 052a स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः 052c ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः 053a षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च 053c अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः 054a अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् 054c द्यावापृथिव्योर्विवरं तेजसा समपूरयत् 055a स तेन तपसा तात ब्रह्मभूतो यदाभवत् 055c ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् 056a ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् 056c अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् 057a रुद्रमीशानमृषभं चेकितानमजं परम् 057c गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् 058a दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् 058c दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् 059a पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं स्वायतासिम् 059c सुभ्रुं जटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघं दण्डपाणिम् 060a शुभाङ्गदं नागयज्ञोपवीतिं विश्वैर्गणैः शोभितं भूतसङ्घैः 060c एकीभूतं तपसां सन्निधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः 061a जलं दिवं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रतिमानं जगच्च 061c नालं द्रष्टुं यमजं भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् 062a यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा ये विशोकाः 062c स तन्निष्ठस्तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श 062e दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे देवदेवम् 063a अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् 063c ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् 064a वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् 064c अजमीशानमव्यग्रं कारणात्मानमच्युतम् 065a अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने 065c पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् 066a त्वत्सम्भूता भूतकृतो वरेण्य गोप्तारोऽद्य भुवनं पूर्वदेवाः 066c आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणां तव देव सृष्टिम् 067a सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् 067c पृथग्विधान्भूतसङ्घांश्च विश्वांस्त्वत्सम्भूतान्विद्म सर्वांस्तथैव 067e ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् 068a रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी 068c कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् 069a अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं सङ्क्षये यान्ति भूयः 069c एवं विद्वान्प्रभवं चाप्ययं च हित्वा भूतानां तत्र सायुज्यमेति 070a दिव्यावृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलः सप्त गोपाः 070c दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् 070e भूतं भव्यं भविता चाप्यधृष्यं त्वत्सम्भूता भुवनानीह विश्वा 071a भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन 071c आत्मानं त्वामात्मनोऽनन्यभावो विद्वानेवं गच्छति ब्रह्म शुक्रम् 072a अस्तौषं त्वां तव सम्मानमिच्छन्विचिन्वन्वै सवृषं देववर्य 072c सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रतिकार्षीश्च मा माम् 073a तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् 073c अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः 074 नीलकण्ठ उवाच 074a मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु 074c अप्रमेयबलात्मा त्वं नारायण भविष्यसि 075a न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः 075c न पिशाचा न गन्धर्वा न नरा न च राक्षसाः 076a न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः 076c न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति 077a न शस्त्रेण न वज्रेण नाग्निना न च वायुना 077c नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा 078a कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन 078c अपि चेत्समरं गत्वा भविष्यसि ममाधिकः 079 व्यास उवाच 079a एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा 079c स एष देवश्चरति मायया मोहयञ्जगत् 080a तस्यैव तपसा जातं नरं नाम महामुनिम् 080c तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा 081a तावेतौ पूर्वदेवानां परमोपचितावृषी 081c लोकयात्राविधानार्थं सञ्जायेते युगे युगे 082a तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च 082c तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते 083a स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् 083c अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया 084a शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् 084c ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद 085a स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् 085c पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् 086a जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः 086c ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे 087a सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् 087c आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः 088a एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः 088c प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् 089a स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः 089c कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः 090a सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् 090c तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः 091 सञ्जय उवाच 091a तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः 091c नमश्चकार रुद्राय बहु मेने च केशवम् 092a हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये 092c वरूथिनीमभिप्रेत्य अवहारमकारयत् 093a ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते 093c कौरवाणां च दीनानां द्रोणे युधि निपातिते 094a युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् 094c ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः