001 सञ्जय उवाच 001a भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जयः 001c तेजसः प्रतिघातार्थं वारुणेन समावृणोत् 002a नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् 002c अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः 003a साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः 003c अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः 004a यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति 004c समापेतुस्तथा बाणा भीमसेनरथं प्रति 005a स हि भीमो रथश्चास्य हयाः सूतश्च मारिष 005c संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् 006a यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् 006c गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् 007a सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः 007c तथा प्रविष्टं तत्तेजो न प्राज्ञायत किञ्चन 008a विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति 008c उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे 009a सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः 009c युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् 010a अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती 010c अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः 011a ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् 011c विगाह्य तौ सुबलिनौ माययाविशतां तदा 012a न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः 012c वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः 013a ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च 013c नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् 014a अपकृष्यमाणः कौन्तेयो नदत्येव महारथः 014c वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् 015a तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन 015c वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे 016a यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः 016c वयमप्यत्र युध्येम तथा चेमे नरर्षभाः 017a रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः 017c तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम 018a एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् 018c निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् 019a यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि 019c ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् 020a तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे 020c बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च 021a प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः 021c वाहनानि च हृष्टानि योधाश्च मनुजेश्वर 022a व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत 022c बभौ भीमो निशापाये धीमान्सूर्य इवोदितः 023a हतशेषं बलं तत्र पाण्डवानामतिष्ठत 023c अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया 024a व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा 024c दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् 025a अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय 025c व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः 026a अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष 026c सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् 027a नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते 027c आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः 028a एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् 028c अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप 029a पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः 029c निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः 030 दुर्योधन उवाच 030a आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते 030c अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर 031a त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा 031c इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरन्दरः 032 धृतराष्ट्र उवाच 032a तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते 032c तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः 033a दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समवस्थितान् 033c नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे 034 सञ्जय उवाच 034a जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः 034c सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् 035a अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः 035c पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् 036a धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् 036c द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् 037a सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः 037c हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः 038a विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् 038c आददत्सर्वलोकस्य प्राणानिव महारणे 039a पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः 039c द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् 040a ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि 040c अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः 041a तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः 041c विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् 042a द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके 042c छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् 043a व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे 043c तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः 044a प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशाम्पते 044c सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् 045a दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् 045c शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति 046a अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् 046c विंशत्या पुनराहत्य नानारूपैरमर्षणम् 046e विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् 047a सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः 047c युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् 048a शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः 048c न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च 049a एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् 049c व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः 050a स तं निर्भिद्य तेनास्तः सायकः सशरावरम् 050c विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः 051a स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः 051c विमुच्य सशरं चापं भूरिव्रणपरिस्रवः 052a सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् 052c सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् 053a अथान्येन सुपुङ्खेन शरेण नतपर्वणा 053c आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः 054a स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः 054c ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् 055a तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् 055c जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः 056a किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः 056c युवराजश्च चेदीनां मालवश्च सुदर्शनः 056e पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् 057a आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः 057c चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् 058a सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् 058c मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् 059a ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः 059c युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः 060a युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् 060c पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः 061a ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् 061c भीमं दशार्धैर्युवराजं चतुर्भिर्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च 061e पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद 062a तस्यास्यतः सुनिशितान्पीतधारान्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च 062c धरा वियद्द्यौः प्रदिशो दिशश्च छन्ना बाणैरभवन्घोररूपैः 063a आसीनस्य स्वरथं तूग्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ 063c भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्सञ्चकर्त 064a स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चापि बाणैः 064c छित्त्वास्य बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त 065a युवानमिन्दीवरदामवर्णं चेदिप्रियं युवराजं प्रहस्य 065c बाणैस्त्वरावाञ्ज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् 066a तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः 066c दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः 067a ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः 067c धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः 068a तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः 068c अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् 069a ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः 069c द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे