001 सञ्जय उवाच 001a ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः 001c युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः 002a ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् 002c अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् 003a शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम् 003c निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् 004a ततो वेगेन महता विनद्य स नरर्षभः 004c प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् 005a यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः 005c मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः 006a तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् 006c विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु 007a सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे 007c सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् 008a तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् 008c सिंहनादेन महता व्यपोह्य सुमहद्भयम् 009a ततः समागमो राजन्कुरुपाण्डवसेनयोः 009c पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव 010a संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः 010c उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च 011a तेषां परमहृष्टानां जयमात्मनि पश्यताम् 011c संरब्धानां महावेगः प्रादुरासीद्रणाजिरे 012a यथा शिलोच्चये शैलः सागरे सागरो यथा 012c प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः 013a ततः शङ्खसहस्राणि भेरीणामयुतानि च 013c अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः 014a ततो निर्मथ्यमानस्य सागरस्येव निस्वनः 014c अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः 015a प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा 015c अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् 016a प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः 016c पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः 017a ते दिशः खं च सैन्यं च समावृण्वन्महाहवे 017c मुहूर्ताद्भास्करस्येव राजल्ँलोकं गभस्तयः 018a तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले 018c प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः 019a चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः 019c चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः 020a शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ 020c दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः 021a यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः 021c तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप 022a वध्यमानास्तथास्त्रेण तेन नारायणेन वै 022c दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे 023a यथा हि शिशिरापाये दहेत्कक्षं हुताशनः 023c तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो 024a आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो 024c जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः 025a द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् 025c मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् 026a धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया 026c सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् 027a वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् 027c उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः 028a सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः 028c अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् 029a भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् 029c अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे 030a कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति 030c कल्याणवृत्त आचार्यो मया युधि निपातितः 031a येन बालः स सौभद्रो युद्धानामविशारदः 031c समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः 032a येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता 032c उपेक्षिता सपुत्रेण दासभावं नियच्छती 033a जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् 033c कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च 034a येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः 034c कुर्वाणा मज्जये यत्नं समूला विनिपातिताः 035a येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः 035c निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः 036a योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् 036c हतस्तदर्थे मरणं गमिष्यामि सबान्धवः 037a एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः 037c निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् 038a शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत 038c एष योगोऽत्र विहितः प्रतिघातो महात्मना 039a द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत 039c एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् 040a यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति 040c तथा तथा भवन्त्येते कौरवा बलवत्तराः 041a निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये 041c तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् 042a ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन 042c निहनिष्यति तान्सर्वान्रसातलगतानपि 043a ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत 043c ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च 044a तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः 044c भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः 045a न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् 045c अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः 046a अथ वाप्यनया गुर्व्या हेमविग्रहया रणे 046c कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् 047a न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह 047c यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते 048a पश्यध्वं मे दृढौ बाहू नागराजकरोपमा 048c समर्थौ पर्वतस्यापि शैशिरस्य निपातने 049a नागायुतसमप्राणो ह्यहमेको नरेष्विह 049c शक्रो यथा प्रतिद्वन्द्वो दिवि देवेषु विश्रुतः 050a अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि 050c ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे 051a यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते 051c अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु 052a एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिन्दमः 052c अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा 053a स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः 053c निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् 054a ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च 054c अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः 055a पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे 055c अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः 056a तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे 056c खद्योतैरावृतस्येव पर्वतस्य दिनक्षये 057a तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति 057c अवर्धत महाराज यथाग्निरनिलोद्धतः 058a विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् 058c पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् 059a ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले 059c अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः 060a तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च 060c तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् 061a हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः 061c भीमसेनमपश्यन्त तेजसा संवृतं तदा