001 धृतराष्ट्र उवाच 001a साङ्गा वेदा यथान्यायं येनाधीता महात्मना 001c यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः 002a तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा 002c नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना 003a यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः 003c अमानुषाणि सङ्ग्रामे देवैरसुकराणि च 004a तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः 004c नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् 005a पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः 005c श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय 006 सञ्जय उवाच 006a श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः 006c तूष्णीं बभूवू राजानः सर्व एव विशां पते 007a अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् 007c सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् 008a युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे 008c आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् 009a नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् 009c भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् 010a कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते 010c गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे 011a याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः 011c यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि 012a अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् 012c वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता 013a कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः 013c निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः 014a सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः 014c यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् 015a उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् 015c तथान्तो विहितस्तेन स्वयमेव महात्मना 016a तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः 016c नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् 017a स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल 017c शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः 018a पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः 018c त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः 019a पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि 019c शिरस्ते पातयिष्यामि गदया वज्रकल्पया 020a सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् 020c संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव 021a श्रूयते श्रूयते चेति क्षम्यते चेति माधव 021c न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि 022a क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् 022c क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते 023a स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः 023c आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि 024a यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया 024c वार्यमाणेन निहतस्ततः पापतरं नु किम् 025a व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे 025c विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् 026a अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् 026c छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् 027a निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् 027c किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः 028a त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः 028c यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् 029a यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् 029c किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् 030a स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् 030c वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ 031a कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम 031c पापानां च त्वमावासः कर्मणां मा पुनर्वद 032a जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् 032c अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि 033a अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् 033c गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् 034a न चैव मूर्ख धर्मेण केवलेनैव शक्यते 034c तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् 035a वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः 035c द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके 036a प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया 036c सर्वस्वमपकृष्टं च तथाधर्मेण बालिश 037a अधर्मेणापकृष्टश्च मद्रराजः परैरितः 037c इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः 037e भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः 038a एवं परैराचरितं पाण्डवेयैश्च संयुगे 038c रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत 039a दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः 039c युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् 040a एवमादीनि वाक्यानि क्रूराणि परुषाणि च 040c श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् 041a तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् 041c विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः 042a ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् 042c न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् 043a तमापतन्तं सहसा महाबलममर्षणम् 043c पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् 044a चोदितो वासुदेवेन भीमसेनो महाबलः 044c अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् 045a द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली 045c प्रस्कन्दमानमादाय जगाम बलिनं बलात् 046a स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः 046c निगृहीतः पदे षष्ठे बलेन बलिनां वरः 047a अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा 047c उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते 048a अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते 048c परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव 049a तथैवान्धकवृष्णीनां तव चैव विशेषतः 049c कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते 050a पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् 050c नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः 051a स भवानीदृशं मित्रं मन्यते च यथा भवान् 051c भवन्तश्च यथास्माकं भवतां च तथा वयम् 052a स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् 052c नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव 053a पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः 053c वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् 054a प्रशाम्यमाने शैनेये सहदेवेन मारिष 054c पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् 055a मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् 055c आसादयतु मामेष धराधरमिवानिलः 056a यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् 056c युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे 057a किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् 057c सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः 058a अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे 058c अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः 059a मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे 059c उत्सृजैनमहं वैनमेष मां वा हनिष्यति 060a शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् 060c भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली 061a त्वरया वासुदेवश्च धर्मराजश्च मारिष 061c यत्नेन महता वीरौ वारयामासतुस्ततः 062a निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ 062c युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः