001 सञ्जय उवाच 001a अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः 001c अप्रियं वा प्रियं वापि महाराज धनञ्जयम् 002a ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत 002c उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ 003a मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् 003c न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः 004a क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु 004c क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् 005a स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः 005c अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे 006a पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः 006c न चातिवर्तसे धर्मं वेलामिव महोदधिः 007a न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् 007c अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे 008a दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते 008c आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत 009a यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः 009c द्रौपदी च परामृष्टा सभामानीय शत्रुभिः 010a वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः 010c अनर्हमाणास्तं भावं त्रयोदश समाः परैः 011a एतान्यमर्षस्थानानि मर्षितानि त्वयानघ 011c क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् 012a तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया 012c सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् 013a त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् 013c घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे 014a स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते 014c भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि 015a वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन 015c विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् 016a अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे 016c यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि 016e यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि 017a स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् 017c दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् 018a आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् 018c गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा 019a स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ 019c द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम 020a अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः 020c अहमेनं गदापाणिर्जेष्याम्येको महाहवे 021a ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् 021c सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः 022a बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् 022c याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ 023a षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः 023c हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे 024a अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः 024c अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् 025a तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् 025c माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् 026a तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा 026c कुरुते भैरवं नादं तत्र किं मम हीयते 027a न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया 027c घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् 028a यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् 028c तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् 029a यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे 029c तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय 030a यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः 030c सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम 031a विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् 031c जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे 032a नृशंसः स मयाक्रम्य रथ एव निपातितः 032c तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे 033a कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् 033c भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि 034a योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् 034c छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः 035a तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया 035c निषादविषये क्षिप्तं जयद्रथशिरो यथा 036a अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन 036c क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः 037a स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव 037c यथा त्वया हतः शूरो भगदत्तः पितुः सखा 038a पितामहं रणे हत्वा मन्यसे धर्ममात्मनः 038c मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे 039a नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन 039c शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव