001 सञ्जय उवाच 001a प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा 001c प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् 002a चचाल पृथिवी चापि चुक्षुभे च महोदधिः 002c प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः 003a शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत 003c अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे 004a तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् 004c सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् 005a देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते 005c कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् 006a व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः 006c तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् 007 धृतराष्ट्र उवाच 007a निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे 007c भृशं शोकाभितप्तेन पितुर्वधममृष्यता 008a कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे 008c को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय 009 सञ्जय उवाच 009a प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः 009c पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत 010a आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे 010c निहते वज्रहस्तेन यथा वृत्रे महासुरे 011a नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय 011c आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा 012a केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः 012c विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः 013a भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः 013c भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः 013e युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः 014a गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः 014c शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश 015a विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः 015c सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः 016a क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् 016c नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः 017a पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् 017c जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि 018a अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् 018c पुनरावर्तितं केन यदि जानासि शंस मे 019a हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् 019c रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् 020a एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे 020c मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् 021a य एष तुमुलः शब्दः श्रूयते लोमहर्षणः 021c सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम 022a मन्ये वज्रधरस्यैष निनादो भैरवस्वनः 022c द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः 023a प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः 023c धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् 024a क एष कौरवान्दीर्णानवस्थाप्य महारथः 024c निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा 025 अर्जुन उवाच 025a उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः 025c धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः 026a यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते 026c धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह 027a ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् 027c व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् 028a यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् 028c ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति 029a जातमात्रेण वीरेण येनोच्चैःश्रवसा इव 029c हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः 030a तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा 030c अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव 031a योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा 031c कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः 032a गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् 032c तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः 033a उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् 033c धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः 034a सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः 034c नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि 035a स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् 035c आचार्य उक्तो भवता हतः कुञ्जर इत्युत 036a ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः 036c आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः 037a स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः 037c शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः 038a न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् 038c रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् 039a ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना 039c सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् 040a सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः 040c सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे 041a विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि 041c अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः 042a यदा गतं वयो भूयः शिष्टमल्पतरं च नः 042c तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् 043a पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः 043c सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः 044a धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते 044c विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः 045a स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः 045c अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः 046a अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः 046c न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः 047a तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः 047c कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः 048a पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः 048c त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः 049a स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः 049c तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो 050a ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् 050c घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्