001 धृतराष्ट्र उवाच 001a अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय 001c ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् 002a मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् 002c ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् 003a तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय 003c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 004a येन रामादवाप्येह धनुर्वेदं महात्मना 004c प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे 005a एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् 005c इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन 006a आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् 006c तानि पुत्राय वा दद्युः शिष्यायानुगताय वा 007a स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय 007c शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः 008a रामस्यानुमतः शास्त्रे पुरन्दरसमो युधि 008c कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ 009a महीधरसमो धृत्या तेजसाग्निसमो युवा 009c समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः 010a स रथी प्रथमो लोके दृढधन्वा जितक्लमः 010c शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः 011a अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता 011c यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः 012a वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः 012c महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा 013a तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे 013c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 014a धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना 014c यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् 015a तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना 015c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 016 सञ्जय उवाच 016a छद्मना निहतं श्रुत्वा पितरं पापकर्मणा 016c बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ 017a तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत 017c अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये 018a अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः 018c उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः 019a पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः 019c धर्मध्वजवता पापं कृतं तद्विदितं मम 019e अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् 020a युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ 020c द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते 021a न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् 021c न स दुःखाय भवति तथा दृष्टो हि स द्विजः 022a गतः स वीरलोकाय पिता मम न संशयः 022c न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः 023a यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् 023c पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति 024a कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः 024c वैधर्मिकानि कुर्वन्ति तथा परिभवेन च 025a तदिदं पार्षतेनेह महदाधर्मिकं कृतम् 025c अवज्ञाय च मां नूनं नृशंसेन दुरात्मना 026a तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् 026c अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः 027a यो ह्यसौ छद्मनाचार्यं शस्त्रं सन्न्यासयत्तदा 027c तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् 028a सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे 028c धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् 029a कर्मणा येन तेनेह मृदुना दारुणेन वा 029c पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव 030a यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः 030c प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् 031a पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा 031c मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति 032a धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् 032c यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् 033a स तथाहं करिष्यामि यथा भरतसत्तम 033c परलोकगतस्यापि गमिष्याम्यनृणः पितुः 034a आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः 034c पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् 035a अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः 035c मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः 036a न हि देवा न गन्धर्वा नासुरा न च राक्षसाः 036c अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ 037a मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः 037c अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् 037e प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः 038a कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे 038c दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् 039a अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः 039c आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह 040a किरन्हि शरजालानि सर्वतो भैरवस्वरम् 040c शत्रून्निपातयिष्यामि महावात इव द्रुमान् 041a न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः 041c न भीमसेनो न यमौ न च राजा युधिष्ठिरः 042a न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः 042c यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् 043a नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् 043c उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते 044a तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ 044c वव्रे पिता मे परममस्त्रं नारायणं ततः 045a अथैनमब्रवीद्राजन्भगवान्देवसत्तमः 045c भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् 046a न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन 046c न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते 047a न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो 047c अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् 048a वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् 048c प्रयाचनं च शत्रूणां गमनं शरणस्य च 049a एते प्रशमने योगा महास्त्रस्य परन्तप 049c सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे 050a तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः 050c त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः 050e अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि 051a एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः 051c एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना 052a तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् 052c विद्रावयिष्यामि रणे शचीपतिरिवासुरान् 053a यथा यथाहमिच्छेयं तथा भूत्वा शरा मम 053c निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत 054a यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः 054c अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् 054e परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् 055a सोऽहं नारायणास्त्रेण महता शत्रुतापन 055c शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् 056a मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः 056c पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते 057a तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी 057c ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः 058a भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः 058c तथा ननाद वसुधा खुरनेमिप्रपीडिता 058e स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् 059a तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् 059c समेत्य रथिनां श्रेष्ठाः सहिताः सन्न्यमन्त्रयन् 060a तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत 060c प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा