001 सञ्जय उवाच 001a क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे 001c रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा 002a हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत 002c छत्राणां चापविद्धानां चामराणां च संयुगे 003a भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः 003c सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् 004a बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम 004c चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे 005a वर्तमाने तथा युद्धे घोरे देवासुरोपमे 005c अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः 005e अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः 006a एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः 006c घटते च यथाशक्ति भारद्वाजस्य नाशने 007a यादृशानि हि रूपाणि दृश्यन्ते नो महारणे 007c अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः 007e ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत 008a युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः 008c अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः 009a तान्समापततः सर्वान्भारद्वाजो महारथः 009c अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः 010a प्रयाते सत्यसन्धे तु समकम्पत मेदिनी 010c ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् 011a पपात महती चोल्का आदित्यान्निर्गतेव ह 011c दीपयन्तीव तापेन शंसन्तीव महद्भयम् 012a जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष 012c रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् 013a हतौजा इव चाप्यासीद्भारद्वाजो महारथः 013c ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति 013e सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे 014a ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः 014c निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे 015a हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः 015c दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः 016a सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः 016c क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः 017a पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी 017c अविषण्णं महात्मानं त्वरमाणः समभ्ययात् 018a ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः 018c अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् 019a न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् 019c त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः 020a स तथोक्तो महाबाहुः सर्वभारसहं नवम् 020c अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् 021a संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे 021c विवारयिषुराचार्यं शरवर्षैरवाकिरत् 022a तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ 022c उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः 023a स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे 023c निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः 024a स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि 024c रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः 025a धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् 025c बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः 026a तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः 026c मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् 027a ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् 027c शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् 028a यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः 028c स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् 029a अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः 029c तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः 030a श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् 030c अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया 031a एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा 031c स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् 032a स चाद्य पतितः शेते पृष्टेनावेदितस्तव 032c धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि 033a एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः 033c सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत 033e कर्ण कर्ण महेष्वास कृप दुर्योधनेति च 034a सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः 034c पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् 035a इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च 035c उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च 035e अभयं सर्वभूतानां प्रददौ योगयुक्तवान् 036a तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः 036c खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् 037a हाहाकृतानि भूतानि मानुषाणीतराणि च 037c द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् 038a हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् 038c द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः 039a तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः 039c दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् 040a द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते 040c एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः 040e समपद्यत चार्काभे भारद्वाजनिशाकरे 041a निमेषमात्रेण च तज्ज्योतिरन्तरधीयत 041c आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् 041e ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते 042a वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः 042c योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् 043a अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः 043c वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः 044a अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः 044c महिमानं महाराज योगमुक्तस्य गच्छतः 045a गतिं परमिकां प्राप्तमजानन्तो नृयोनयः 045c नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः 045e आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् 046a वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् 046c धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् 047a तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः 047c किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः 048a हर्षेण महता युक्तो भारद्वाजे निपातिते 048c सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे 049a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 049c त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् 050a उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः 050c जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज 051a न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह 051c उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् 052a क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः 052c धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् 053a शोणितेन परिक्लिन्नो रथाद्भूमिमरिन्दमः 053c लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत 053e एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः 054a धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् 054c तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् 055a ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः 055c पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् 056a द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् 056c अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप 057a ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च 057c विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव 057e अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् 058a हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः 058c अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत 059a निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः 059c तावका निहते द्रोणे गतासव इवाभवन् 060a पराजयमथावाप्य परत्र च महद्भयम् 060c उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः 061a अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः 061c नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले 062a पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः 062c बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् 063a भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः 063c वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् 064a अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् 064c भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत 064e सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे 065a एतावदुक्त्वा भीमस्तु हर्षेण महता युतः 065c बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः 066a तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि 066c क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः 067a पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशाम्पते 067c अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् 068a ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः 068c हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः 069a विचेतसो हतोत्साहाः कश्मलाभिहतौजसः 069c आर्तस्वरेण महता पुत्रं ते पर्यवारयन् 070a रजस्वला वेपमाना वीक्षमाणा दिशो दश 070c अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते 071a स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव 071c अशक्नुवन्नवस्थातुमपायात्तनयस्तव 072a क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत 072c आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् 073a भास्करस्येव पतनं समुद्रस्येव शोषणम् 073c विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् 074a अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् 074c त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् 075a गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह 075c हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः 076a वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् 076c परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् 077a रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् 077c मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् 078a हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः 078c वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् 079a भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः 079c कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः 080a पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः 080c उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् 081a दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः 081c दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः 082a गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः 082c दुर्योधनो महाराज प्रायात्तत्र महारथः 083a गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः 083c प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः 084a नेदमस्तीति पुरुषा हतोत्साहा हतौजसः 084c उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो 085a अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ 085c तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे 086a धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् 086c अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् 087a द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि 087c प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् 088a हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः 088c कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः 089a द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् 089c दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् 090a किमियं द्रवते सेना त्रस्तरूपेव भारत 090c द्रवमाणां च राजेन्द्र नावस्थापयसे रणे 091a त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप 091c कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः 092a अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा 092c कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत 093a कस्मिन्निदं हते राजन्रथसिंहे बलं तव 093c एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव 094a तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् 094c घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः 095a भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे 095c बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् 096a ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् 096c शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् 097a अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः 097c शशंस द्रोणपुत्राय यथा द्रोणो निपातितः 098 कृप उवाच 098a वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् 098c प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः 099a ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः 099c अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् 100a ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः 100c अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः 101a पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः 101c सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः 102a सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् 102c द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे 103a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 103c रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् 104a क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु 104c अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् 105a तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् 105c दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः 106a स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् 106c मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् 107a ते दह्यमाना द्रोणेन सूर्येणेव विराजता 107c दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः 108a तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः 108c जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् 109a नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः 109c अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः 110a ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः 110c यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः 111a अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम 111c हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः 112a एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः 112c अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः 113a भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव 113c अश्वत्थामा हत इति तच्चाबुध्यत ते पिता 114a स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत 114c हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः 115a तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 115c अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत 115e भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः 116a उपसृत्य तदा द्रोणमुच्चैरिदमभाषत 116c यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि 116e पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः 117a तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् 117c नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा 118a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 118c पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् 119a तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः 119c दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् 120a ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा 120c पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः 121a न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् 121c तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् 122a उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः 122c जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् 123a तथापि वार्यमाणेन कौरवैरर्जुनेन च 123c हत एव नृशंसेन पिता तव नरर्षभ 124a सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः 124c वयं चापि निरुत्साहा हते पितरि तेऽनघ 125 सञ्जय उवाच 125a तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे 125c क्रोधमाहारयत्तीव्रं पदाहत इवोरगः