001 सञ्जय उवाच 001a तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षये 001c दुःशासनो महाराज धृष्टद्युम्नमयोधयत् 002a स तु रुक्मरथासक्तो दुःशासनशरार्दितः 002c अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् 003a क्षणेन स रथस्तस्य सध्वजः सहसारथिः 003c नादृश्यत महाराज पार्षतस्य शरैश्चितः 004a दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः 004c नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः 005a स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः 005c किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे 006a प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् 006c सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् 007a तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ 007c द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् 008a सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः 008c अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः 009a शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः 009c आर्यं युद्धमकुर्वन्त परस्परजिगीषवः 010a शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः 010c धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् 011a न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च 011c नात्र कर्णी न नालीको न लिप्तो न च वस्तकः 012a न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः 012c इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः 013a ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् 013c सुयुद्धेन पराल्ँलोकानीप्सन्तः कीर्तिमेव च 014a तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् 014c चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह 015a धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् 015c यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् 016a निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः 016c समसज्जन्त चत्वारो वाताः पर्वतयोरिव 017a द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ 017c समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत 018a दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् 018c यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् 019a दुर्योधनो महाराज किरञ्शोणितभोजनान् 019c तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत 020a तौ परस्परमासाद्य समीपे कुरुमाधवौ 020c हसमानौ नृशार्दूलावभीतौ समगच्छताम् 021a बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ 021c अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः 022a अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत 022c प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः 023a धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् 023c धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् 024a यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव 024c त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव 025a स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ 025c तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे 025e किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत 026a तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत 026c प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् 027a नेयं सभा राजपुत्र न चाचार्यनिवेशनम् 027c यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः 028 दुर्योधन उवाच 028a क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव 028c क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः 029a किं नु नो विद्यते कृत्यं धनेन धनलिप्सया 029c यत्र युध्यामहे सर्वे धनलोभात्समागताः 030 सञ्जय उवाच 030a तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् 030c एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि 031a यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः 031c त्वत्कृते सुकृताल्ँलोकान्गच्छेयं भरतर्षभ 032a या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय 032c नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् 033a इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः 033c अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशाम्पते 034a तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः 034c शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव 035a ततः प्रववृते युद्धं कुरुमाधवसिंहयोः 035c अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः 036a ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् 036c दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः 037a तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः 037c पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह 038a तस्य सन्दधतश्चेषून्संहितेषुं च कार्मुकम् 038c अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् 039a स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् 039c दुर्योधनो महाराज दाशार्हशरपीडितः 040a समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् 040c विसृजन्निषुजालानि युयुधानरथं प्रति 041a तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति 041c प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत 042a तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः 042c अग्नेरिव महाकक्षे शब्दः समभवन्महान् 043a तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् 043c क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव 044a न तु तं मर्षयामास भीमसेनो महाबलः 044c अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् 045a तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव 045c धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः 046a भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः 046c ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः 047a अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत 047c विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे 048a सङ्कुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् 048c पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् 049a ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः 049c त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः 050a किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः 050c तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः 051a क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः 051c जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ 052a जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः 052c हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् 053a ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः 053c चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः 054a पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः 054c भीमसेनपुरोगाश्च एकतः पर्यवारयन् 055a आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः 055c यमौ च भीमसेनश्च प्राक्रोशन्त धनञ्जयम् 056a अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद 056c तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् 057a कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् 057c पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् 058a पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् 058c यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा 059a द्रोणास्त्रेण महाराज वध्यमानाः परे युधि 059c नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः 060a वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा 060c द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् 061a तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः 061c अभवद्भैरवो नादो वध्यतां शरशक्तिभिः 062a वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना 062c उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् 063a दृष्ट्वाश्वनरसङ्घानां विपुलं च क्षयं युधि 063c पाण्डवेया महाराज नाशंसुर्विजयं तदा 064a कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् 064c समिद्धः शिशिरापाये दहन्कक्षमिवानलः 065a न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् 065c न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् 066a त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् 066c मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् 067a नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन 067c अपि वृत्रहणा युद्धे रथयूथपयूथपः 068a आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव 068c यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः 069a अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम 069c तं हतं संयुगे कश्चिदस्मै शंसतु मानवः 070a एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः 070c अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः 071a ततो भीमो महाबाहुरनीके स्वे महागजम् 071c जघान गदया राजन्नश्वत्थामानमित्युत 072a भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे 072c अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह 073a अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् 073c कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा 074a भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् 074c मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि 075a शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै 075c हतः स इति च श्रुत्वा नैव धैर्यादकम्पत 076a स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् 076c अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः 077a स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः 077c अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् 078a तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः 078c तथा चरन्तं सङ्ग्रामे सर्वतो व्यकिरञ्शरैः 079a ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परन्तपः 079c वधाय तेषां शूराणां पाञ्चालानाममर्षितः 080a ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् 080c शिरांस्यपातयच्चापि पाञ्चालानां महामृधे 080e तथैव परिघाकारान्बाहून्कनकभूषणान् 081a ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः 081c मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः 082a कुञ्जराणां च पततां हयौघानां च भारत 082c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 083a हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् 083c अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् 084a तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् 084c वसुदानस्य भल्लेन शिरः कायादपाहरत् 085a पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् 085c हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः 086a क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् 086c ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः 087a विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः 087c वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः 088a सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः 088c भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः 089a त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् 089c अधर्मतः कृतं युद्धं समयो निधनस्य ते 090a न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् 090c नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि 091a वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च 091c ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते 092a न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते 092c परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे 093a इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् 093c धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाभवत् 094a स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् 094c अहतं वा हतं वेति पप्रच्छ सुतमात्मनः 095a स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् 095c त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन 096a तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्विशेषतः 096c तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे 097a ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् 097c द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् 098a यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः 098c सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति 099a स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् 099c अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः 100a तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् 100c श्रुत्वैव तं महाराज वधोपायं महात्मनः 101a गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः 101c अश्वत्थामेति विख्यातो गजः शक्रगजोपमः 102a निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् 102c अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति 103a नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः 103c स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः 104a द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् 104c त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः 104e सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप 105a तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः 105c भावित्वाच्च महाराज वक्तुं समुपचक्रमे 106a तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 106c अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत 107a तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः 107c बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् 108a युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः 108c पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् 109a आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् 109c ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् 110a विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च 110c योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दम 111a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 111c पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् 112a य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे 112c लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् 113a स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् 113c दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् 114a सन्दधे कार्मुके तस्मिञ्शरमाशीविषोपमम् 114c द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् 115a तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे 115c द्योततो भास्करस्येव घनान्ते परिवेशिनः 116a पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः 116c अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः 117a तमिषुं संहितं तेन भारद्वाजः प्रतापवान् 117c दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् 118a ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे 118c न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः 119a तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता 119c तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः 120a स शरक्षयमासाद्य पुत्रशोकेन चार्दितः 120c विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् 121a उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः 121c तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् 122a अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः 122c शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् 123a ततस्तं शरवर्षेण महता समवाकिरत् 123c व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणः 124a तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः 124c ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् 125a धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् 125c शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे 126a सोऽतिविद्धो महेष्वासः सम्भ्रान्त इव संयुगे 126c भल्लेन शितधारेण चिच्छेदास्य महद्धनुः 127a यच्चास्य बाणं विकृतं धनूंषि च विशाम्पते 127c सर्वं सञ्छिद्य दुर्धर्षो गदां खड्गमथापि च 128a धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः 128c जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परन्तपः 129a धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः 129c अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् 130a ते मिश्रा बह्वशोभन्त जवना वातरंहसः 130c पारावतसवर्णाश्च शोणाश्च भरतर्षभ 131a यथा सविद्युतो मेघा नदन्तो जलदागमे 131c तथा रेजुर्महाराज मिश्रिता रणमूर्धनि 132a ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च 132c प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः 133a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 133c उत्तमामापदं प्राप्य गदां वीरः परामृशत् 134a तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः 134c निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः 135a तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः 135c विमलं खड्गमादत्त शतचन्द्रं च भानुमत् 136a असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत 136c वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः 137a ततः स्वरथनीडस्थः स्वरथस्य रथेषया 137c अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् 138a चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः 138c इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे 139a सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च 139c शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् 140a तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः 140c नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् 141a क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः 141c तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे 142a तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी 142c सर्वानेकैकशो द्रोणः कपोताभानजीघनत् 143a ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः 143c शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशाम्पते 144a तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः 144c नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः 145a विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः 145c द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् 146a तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः 146c यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे 147a सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् 147c भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् 148a परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् 148c सम्पातं समुदीर्णं च दर्शयामास पार्षतः 149a ततः शरसहस्रेण शतचन्द्रमपातयत् 149c खड्गं चर्म च सम्बाधे धृष्टद्युम्नस्य स द्विजः 150a ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः 150c निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः 151a शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च 151c प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः 152a अथास्येषुं समाधत्त दृढं परमसंशितम् 152c अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम् 153a तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः 153c पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः 153e ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् 154a चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् 154c द्रोणकर्णान्तरगतं कृपस्यापि च भारत 154e अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ 155a अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति 155c दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् 155e अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ 156a धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव 156c आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः 157a आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः 157c माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् 158a यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः 158c महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः 159a तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः 159c अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् 159e योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्