001 सञ्जय उवाच 001a ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् 001c रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् 002a तस्यापतत एवाशु भल्लेनामित्रकर्शनः 002c माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् 003a नैनं दुःशासनः सूतं नापि कश्चन सैनिकः 003c हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् 004a यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् 004c ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् 005a स हयान्सन्निगृह्याजौ स्वयं हयविशारदः 005c युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च 006a तदस्यापूजयन्कर्म स्वे परे चैव संयुगे 006c हतसूतरथेनाजौ व्यचरद्यदभीतवत् 007a सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् 007c पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः 008a स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् 008c धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् 009a छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् 009c परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् 010a वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः 010c आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् 011a सन्न्यवर्तत तं कर्णः सङ्घट्टित इवोरगः 011c तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा 012a तौ वृषाविव सङ्क्रुद्धौ विवृत्तनयनावुभौ 012c वेगेन महतान्योन्यं संरब्धावभिपेततुः 013a अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः 013c अभिन्नशरपातत्वाद्गदायुद्धमवर्तत 014a गदया भीमसेनस्तु कर्णस्य रथकूबरम् 014c बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् 015a ततो भीमस्य राधेयो गदामादाय वीर्यवान् 015c अवासृजद्रथे तां तु बिभेद गदया गदाम् 016a ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् 016c तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः 016e प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् 017a तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः 017c पपात सारथिश्चास्य मुमोह गदया हतः 018a स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः 018c ध्वजे शरासने चैव शरावापे च भारत 019a ततः पुनस्तु राधेयो हयानस्य रथेषुभिः 019c ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी 020a स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् 020c हरिर्यथा गिरेः शृङ्गं समाक्रामदरिन्दमः 021a तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ 021c आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि 022a लघुसन्धानयोगाभ्यां रथयोश्च रणेन च 022c मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च 023a उपारमन्त ते सर्वे योधास्माकं परे तथा 023c अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः 024a विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः 024c अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः 024e पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः 025a तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् 025c आमिषार्थं महाराज गगने श्येनयोरिव 026a यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया 026c तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः 027a यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे 027c ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः 028a ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् 028c मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः 029a अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः 029c ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् 030a यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया 030c तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः 031a स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि 031c अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् 032a मेने चात्मानमधिकं पृथिव्यामपि भारत 032c तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः 033a वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् 033c यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् 034a ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः 034c ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया 035a तदप्सरोभिराकीर्णं यक्षराक्षससङ्कुलम् 035c श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा 036a तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः 036c द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः 036e विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश 037a नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् 037c न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् 037e विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् 038a अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः 038c नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् 039a यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना 039c तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते 040a ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे 040c शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे 041a नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः 041c इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् 042a इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ 042c अन्तर्हितानि भूतानि प्रकाशानि च सङ्घशः 043a ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः 043c सन्तापयन्रणे पार्थं भूतान्यन्तर्हितानि च 044a ततश्चचाल पृथिवी सपर्वतवनद्रुमा 044c ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः 045a ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः 045c सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना 046a ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् 046c ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् 047a यदा न गम्यते पारं तयोरन्यतरस्य वा 047c ततः सङ्कुलयुद्धेन तद्युद्धं व्याशकुलीकृतम् 048a नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते 048c प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे 049a शरजालैः समाकीर्णे मेघजालैरिवाम्बरे 049c न स्म सम्पतते कश्चिदन्तरिक्षचरस्तदा