001 सञ्जय उवाच 001a ते तथैव महाराज दंशिता रणमूर्धनि 001c सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे 002a उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे 002c प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत 003a द्वन्द्वानि यानि तत्रासन्संसक्तानि पुरोदयात् 003c तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत 004a रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः 004c हया हयैः समाजग्मुः पादाताश्च पदातिभिः 004e संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे 005a ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा 005c क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् 006a शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् 006c विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् 007a शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ 007c द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् 008a हयानां हेषतां चैव रथानां च निवर्तताम् 008c क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् 009a विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः 009c नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः 010a भूमावश्रूयत महांस्तदासीत्कृपणं महत् 010c पततां पतितानां च पत्त्यश्वरथहस्तिनाम् 011a तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः 011c स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे 012a वीरबाहुविसृष्टाश्च योधेषु च गजेषु च 012c असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव 013a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 013c स एव शब्दस्तद्रूपो वाससां निज्यतामिव 014a अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः 014c निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् 015a गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् 015c शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् 016a आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् 016c नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् 017a शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः 017c विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः 017e संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः 018a युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः 018c क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि 018e नासीद्रथपथस्तत्र सर्वमायोधनं प्रति 019a मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः 019c कथञ्चिदवहञ्श्रान्ता वेपमानाः शरार्दिताः 019e कुलसत्त्वबलोपेता वाजिनो वारणोपमाः 020a विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् 020c बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ 021a तावेवास्तां निलयनं तावार्तायनमेव च 021c तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् 022a आविग्नमभवत्सर्वं कौरवाणां महद्बलम् 022c पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन 023a अन्तकाक्रीडसदृशे भीरूणां भयवर्धने 023c पृथिव्यां राजवंशानामुत्थिते महति क्षये 024a न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् 024c न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् 025a न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ 025c न कृपं मद्रराजं वा कृतवर्माणमेव च 026a न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा 026c पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् 027a सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते 027c द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा 028a न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः 028c न दिशो न दिवं नोर्वीं न समं विषमं तथा 029a हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् 029c न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः 030a उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च 030c प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च 031a तत्र नागा हया योधा रथिनोऽथ पदातयः 031c पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः 032a ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा 032c पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः 033a दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत 033c वृकोदरेण राधेयो भारद्वाजेन चार्जुनः 034a तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः 034c रथर्षभाणामुग्राणां सन्निपातममानुषम् 035a रथमार्गैर्विचित्रैश्च विचित्ररथसङ्कुलम् 035c अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् 036a यतमानाः पराक्रान्ताः परस्परजिगीषवः 036c जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् 037a ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः 037c अशोभन्त यथा मेघाः शारदाः समुपस्थिताः 038a स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः 038c अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव 039a न नूनं देहभेदोऽस्ति काले तस्मिन्समागते 039c यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः 040a बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः 040c कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः 041a नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः 041c अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः 042a चित्रैश्च विविधाकारैः शरीरावरणैरपि 042c विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः 043a शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः 043c अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः 044a वातायमानैरसकृद्धतवीरैरलङ्कृतैः 044c व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः 045a छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः 045c हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः 046a उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च 046c आसीदायोधनं तत्र नभस्तारागणैरिव 047a ततो दुर्योधनस्यासीन्नकुलेन समागमः 047c अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च 048a अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् 048c किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् 049a अपसव्यं कृतः सङ्ख्ये भ्रातृव्येनात्यमर्षिणा 049c सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः 050a ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् 050c न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् 051a सर्वतो विनिवार्यैनं शरजालेन पीडयन् 051c विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् 052a तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव 052c संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च