001 सञ्जय उवाच 001a त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत 001c कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते 002a अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः 002c अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् 003a ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् 003c अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः 004a द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् 004c सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् 005a स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः 005c द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत 006a अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः 006c आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् 007 भीम उवाच 007a अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः 007c यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः 008a अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे 008c असम्भावितरूपः सन्नानृशंस्यं करिष्यसि 009a सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि 009c भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु 010 सञ्जय उवाच 010a स सव्यसाची भीमेन चोदितः केशवेन च 010c कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् 011a तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् 011c पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः 011e नाशक्नुवन्वारयितुं वर्धमानमिवानलम् 012a अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः 012c अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनञ्जयम् 013a तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः 013c कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् 014a अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः 014c सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः 015a उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च 015c तमश्च घोरं शब्दश्च तदा समभवन्महान् 016a न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते 016c सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् 017a नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् 017c उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः 018a विरथा रथिनो राजन्समासाद्य परस्परम् 018c केशेषु समसज्जन्त कवचेषु भुजेषु च 019a हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा 019c जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः 020a हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः 020c गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः 021a ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् 021c अतिष्ठदाहवे द्रोणो विधूम इव पावकः 022a तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु 022c समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते 023a भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा 023c द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष 024a आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् 024c नैनं शशंसिरे जेतुं दानवा वासवं यथा 025a केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः 025c विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः 026a हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः 026c अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः 027a व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् 027c अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः 028a पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः 028c समसज्जन्त राजेन्द्र समरे भृशवेदनाः 029a ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे 029c तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् 030a द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते 030c चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि 031a तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः 031c त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि 032a ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् 032c मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः 033a ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् 033c द्रोणं प्रति महाराज विराटश्चैव संयुगे 034a ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः 034c द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् 035a हते विराटे द्रुपदे केकयेषु तथैव च 035c तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च 035e हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु 036a द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः 036c शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः 037a इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु 037c द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः 038a इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् 038c आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा 038e पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः 039a दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 039c सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे 040a रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः 040c यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् 041a तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष 041c स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ 042a द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः 042c कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् 043a पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् 043c विशेषतस्तु शपथं शपित्वा राजसंसदि 044a एष वैश्वानर इव समिद्धः स्वेन तेजसा 044c शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा 045a पुरा करोति निःशेषां पाण्डवानामनीकिनीम् 045c स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् 046a इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः 046c दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् 047a धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् 047c आससाद रणे द्रोणं तदासीत्तुमुलं महत् 048a नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् 048c यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् 049a संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष 049c हतानि च विकीर्णानि शरीराणि शरीरिणाम् 050a केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः 050c विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे 051a तथा संसक्तयुद्धं तदभवद्भृशदारुणम् 051c अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत