001 सञ्जय उवाच 001a ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् 001c अमर्षवशमापन्नो जनयन्हर्षतेजसी 002a न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः 002c सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः 003a तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया 003c त एते परिविश्रान्ताः पाण्डवा बलवत्तराः 004a सर्वथा परिहीनाः स्म तेजसा च बलेन च 004c भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः 005a दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि 005c तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः 006a न पाण्डवेया न वयं नान्ये लोके धनुर्धराः 006c युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते 007a ससुरासुरगन्धर्वानिमाल्ँलोकान्द्विजोत्तम 007c सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः 008a स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः 008c शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् 009a एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते 009c समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः 010a स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे 010c अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना 010e अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः 011a यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् 011c तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा 012a निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् 012c विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे 013a मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे 013c तस्य वीर्यं महाबाहो शृणु सत्येन कौरव 014a तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः 014c उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् 015a खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः 015c सायकैर्वारितश्चापि वर्षमाणो महात्मना 016a यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः 016c निहताः पुरुषेन्द्रेण तच्चापि विदितं तव 017a गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः 017c यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना 018a निवातकवचाश्चापि देवानां शत्रवस्तथा 018c सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः 019a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 019c विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् 020a प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव 020c क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते 021a तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा 021c द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् 022a अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे 022c हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् 023a तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव 023c अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् 024a को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा 024c अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् 025a तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः 025c नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् 026a मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत 026c युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् 027a त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः 027c श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि 028a गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् 028c त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि 029a इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः 029c त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् 030a एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः 030c दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे 031a एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः 031c देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् 032a त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् 032c असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः 033a अहं च तात कर्णश्च भ्राता दुःशासनश्च मे 033c पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः 034a इति ते कत्थमानस्य श्रुतं संसदि संसदि 034c अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह 035a एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः 035c क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् 036a दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् 036c कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् 037a इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे 037c द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा