001 सञ्जय उवाच 001a घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् 001c दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः 002a दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव 002c धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय 003a त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् 003c सशरः कवची खड्गी धन्वी च परतापनः 003e अभिद्रव रणे हृष्टो न च ते भीः कथञ्चन 004a जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः 004c अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः 005a नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः 005c द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ 006a सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः 006c अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया 007a तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन 007c पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् 008a तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना 008c अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया 009a आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् 009c प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः 010a ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् 010c अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् 011a ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् 011c पाण्डवानां कुरूणां च गर्जतामितरेतरम् 012a निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे 012c नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः 013a त्रियामा रजनी चैषा घोररूपा भयानका 013c सहस्रयामप्रतिमा बभूव प्राणहारिणी 013e वध्यतां च तथा तेषां क्षतानां च विशेषतः 014a अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः 014c सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः 014e तव चैव परेषां च गतास्त्रा विगतेषवः 015a ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः 015c स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् 016a शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः 016c गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत 017a निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिपाः 017c तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् 018a स्वप्नायमानास्त्वपरे परानिति विचेतसः 018c आत्मानं समरे जघ्नुः स्वानेव च परानपि 019a नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे 019c योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः 020a सम्मर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् 020c जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे 021a हन्यमानं तथात्मानं परेभ्यो बहवो जनाः 021c नाभ्यजानन्त समरे निद्रया मोहिता भृशम् 022a तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः 022c उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन्दिशः 023a श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः 023c तमसा चावृते सैन्ये रजसा बहुलेन च 024a ते यूयं यदि मन्यध्वमुपारमत सैनिकाः 024c निमीलयत चात्रैव रणभूमौ मुहूर्तकम् 025a ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः 025c संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः 026a तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते 026c अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् 027a चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च 027c उपारमत पाण्डूनां विरता हि वरूथिनी 028a तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः 028c उपारमत पाण्डूनां सेना तव च भारत 029a तामस्य वाचं देवाश्च ऋषयश्च महात्मनः 029c सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् 030a तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत 030c मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ 031a सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत 031c सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् 032a त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ 032c धर्मस्त्वयि महाबाहो दया भूतेषु चानघ 033a यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते 033c मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि 034a इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः 034c निद्रया समवाक्षिप्तास्तूष्णीमासन्विशाम्पते 035a अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे 035c गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ 036a सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः 036c सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् 037a गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः 037c निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् 038a गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले 038c विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः 039a समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् 039c हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः 039e सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः 040a तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् 040c कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् 041a ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः 041c कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम् 042a ततः कुमुदनाथेन कामिनीगण्डपाण्डुना 042c नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता 043a ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः 043c अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः 044a अरुणस्य तु तस्यानु जातरूपसमप्रभम् 044c रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् 045a उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः 045c पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा 046a ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् 046c अप्रख्यमप्रकाशं च जगामाशु तमस्तथा 047a प्रतिप्रकाशिते लोके दिवाभूते निशाकरे 047c विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः 048a बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः 048c बुबुधे शतपत्राणां वनं महदिवाम्भसि 049a यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् 049c तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः 050a ततः प्रववृते युद्धं पुनरेव विशाम्पते 050c लोके लोकविनाशाय परं लोकमभीप्सताम्