001 धृतराष्ट्र उवाच 001a कर्णदुर्योधनादीनां शकुनेः सौबलस्य च 001c अपनीतं महत्तात तव चैव विशेषतः 002a यदाजानीत तां शक्तिमेकघ्नीं सततं रणे 002c अनिवार्यामसह्यां च देवैरपि सवासवैः 003a सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा 003c न देवकीसुते मुक्ता फल्गुने वापि सञ्जय 004 सञ्जय उवाच 004a सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशाम्पते 004c रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत 005a प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा 005c शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः 006a ततः प्रभातसमये राजन्कर्णस्य दैवतैः 006c अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः 007a दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया 007c न जघान रणे पार्थं कृष्णं वा देवकीसुतम् 008a तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता 008c दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् 009a कृष्णे वा देवकीपुत्रे मोहितो देवमायया 009c पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो 010 धृतराष्ट्र उवाच 010a दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च 010c गता हि वासवी हत्वा तृणभूतं घटोत्कचम् 011a कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः 011c अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् 012a भूय एव तु मे शंस यथा युद्धमवर्तत 012c कुरूणां पाण्डवानां च हैडिम्बे निहते तदा 013a ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः 013c सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् 014a सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च 014c अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् 015a जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् 015c कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः 016a आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः 016c द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे 017a भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ 017c समार्छन्मामका युद्धे कथं सञ्जय शंस मे 018a सिन्धुराजवधेनेमे घटोत्कचवधेन ते 018c अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि 019 सञ्जय उवाच 019a हते घटोत्कचे राजन्कर्णेन निशि राक्षसे 019c प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु 020a आपतत्सु च वेगेन वध्यमाने बलेऽपि च 020c विगाढायां रजन्यां च राजा दैन्यं परं गतः 021a अब्रवीच्च महाबाहुर्भीमसेनं परन्तपः 021c आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् 021e हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् 022a एवं भीमं समादिश्य स्वरथे समुपाविशत् 022c अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः 022e कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् 023a तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् 023c मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते 023e वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे 024a उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो 024c त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् 025a श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः 025c विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् 026a विदिता ते महाबाहो धर्माणां परमा गतिः 026c ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते 027a अस्माकं हि वनस्थानां हैडिम्बेन महात्मना 027c बालेनापि सता तेन कृतं साह्यं जनार्दन 028a अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् 028c असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः 028e उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः 029a गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः 029c पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना 030a आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो 030c मदर्थं दुष्करं कर्म कृतं तेन महात्मना 031a स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन 031c सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे 032a भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे 032c येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः 033a पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः 033c द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ 034a निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् 034c गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् 035a अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव 035c चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः 036a एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः 036c निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे 037a कथमस्मासु जीवत्सु त्वयि चैव जनार्दन 037c हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः 038a कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः 038c निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः 039a यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः 039c नासीत्तत्र रणे कृष्ण सव्यसाची महारथः 040a निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना 040c निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि 041a उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् 041c व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह 042a व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् 042c अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी 042e तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् 043a अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना 043c सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम 044a यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः 044c द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः 045a एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ 045c एतौ रणे समासाद्य पराश्वस्तः सुयोधनः 046a यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः 046c तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् 047a अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः 047c ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया 047e भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः 048a एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः 048c स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् 049a ततो रथसहस्रेण गजानां च शतैस्त्रिभिः 049c वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः 049e वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् 050a ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः 050c पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः 051a ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् 051c एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः 051e जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते 052a एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् 052c दूरं च यातं राजानमन्वगच्छज्जनार्दनः 053a तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया 053c शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना 053e अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् 054a कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः 054c सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः 055a न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ 055c सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः 056a वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः 056c वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर 057a ततो भवेत्ते व्यसनं घोरं भरतसत्तम 057c दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद 058a वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ 058c तवैव कारणाद्रक्षो निहतं तात संयुगे 059a मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः 059c प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर 060a भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः 060c कौरवान्समरे राजन्नभियुध्यस्व भारत 060e पञ्चमे दिवसे चैव पृथिवी ते भविष्यति 061a नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय 061c आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव 062a सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः 062c इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत