001 धृतराष्ट्र उवाच 001a एकवीरवधे मोघा शक्तिः सूतात्मजे यदा 001c कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् 002a तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः 002c एकवीरवधे कस्मान्न युद्धे जयमादधत् 003a आहूतो न निवर्तेयमिति तस्य महाव्रतम् 003c स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः 004a ततो द्वैरथमानीय फल्गुनं शक्रदत्तया 004c न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय 005a नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः 005c शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् 006a या ह्यस्य परमा शक्तिर्जयस्य च परायणम् 006c सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे 007a कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा 007c तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे 008a यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः 008c मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै 009a घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् 009c वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् 010a इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे 010c अयोधयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च 011 सञ्जय उवाच 011a एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप 011c नियोजयामास तदा द्वैरथे राक्षसेश्वरम् 012a घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः 012c अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव 013a तदैव कृतकार्या हि वयं स्याम कुरूद्वह 013c न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् 014a साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि 014c विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् 015a तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव 015c जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः 016a सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् 016c हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः 017 धृतराष्ट्र उवाच 017a विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः 017c यस्यैष समतिक्रान्तो वधोपायो जयं प्रति 018a तवापि समतिक्रान्तमेतद्गावल्गणे कथम् 018c एतमर्थं महाबुद्धे यत्त्वया नावबोधितः 019 सञ्जय उवाच 019a दुर्योधनस्य शकुनेर्मम दुःशासनस्य च 019c रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना 020a श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् 020c प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः 021a अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः 021c स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् 022a कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः 022c शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः 023a कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः 023c कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः 024a तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज 024c कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा 025a हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् 025c कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः 026a यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा 026c ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत 027a सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे 027c अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत 028a अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः 028c न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे 029a अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः 029c अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो 030a ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः 030c पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् 031a अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम 031c किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा 032 वासुदेव उवाच 032a दुःषासनश्च कर्णश्च शकुनिश्च ससैन्धवः 032c सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः 033a कर्ण कर्ण महेष्वास रणेऽमितपराक्रम 033c नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर 034a ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनञ्जयात् 034c स हि तेषामतियशा देवानामिव वासवः 035a तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह 035c भविष्यन्ति गतात्मानः सुरा इव निरग्नयः 036a तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव 036c हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः 037a अहमेव तु राधेयं मोहयामि युधां वर 037c यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने 038a फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः 038c न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर 039a घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव 039c मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् 040a न पिता न च मे माता न यूयं भ्रातरस्तथा 040c न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे 041a त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् 041c नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् 042a अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् 042c मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् 043a अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः 043c न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् 044 सञ्जय उवाच 044a इति सात्यकये प्राह तदा देवकिनन्दनः 044c धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः