001 अर्जुन उवाच 001a कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन 001c जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः 002 वासुदेव उवाच 002a जरासन्धश्चेदिराजो नैषादिश्च महाबलः 002c यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः 003a सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् 003c तेऽस्माभिर्नित्यसन्दुष्टाः संश्रयेयुश्च कौरवान् 004a ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः 004c धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव 005a सूतपुत्रो जरासन्धश्चेदिराजो निषादजः 005c सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् 006a योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय 006c अजय्या हि विना योगैर्मृधे ते दैवतैरपि 007a एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् 007c योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् 008a जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः 008c अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् 009a सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् 009c व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः 010a तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः 010c प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् 011a अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि 011c दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् 012a तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा 012c सन्धयामास तं जातं जरासन्धमरिन्दमम् 013a द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् 013c तया स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः 014a सा तु भूमिगता पार्थ हता ससुतबान्धवा 014c गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी 015a विनाभूतः स गदया जरासन्धो महामृधे 015c निहतो भीमसेनेन पश्यतस्ते धनञ्जय 016a यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् 016c सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम 017a त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः 017c द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः 018a स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः 018c अस्यन्नेको वनचरो बभौ राम इवापरः 019a एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः 019c सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् 020a किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् 020c दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् 021a त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि 021c चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव 022a स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः 022c वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् 023a त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया 023c हिडिम्बबककिर्मीरा भीमसेनेन पातिताः 023e रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः 024a हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः 024c हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः 025a यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे 025c मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः 026a मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया 026c एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः 027a धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः 027c व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ 028a ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव 028c धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया 029a ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा 029c यत्र तत्र रमे नित्यमहं सत्येन ते शपे 030a न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति 030c उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि 031a सुयोधनं चापि रणे हनिष्यति वृकोदरः 031c तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव 032a वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति 032c विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश 033a लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव 033c दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः