001 सञ्जय उवाच 001a हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् 001c पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः 002a वासुदेवस्तु हर्षेण महताभिपरिप्लुतः 002c ननाद सिंहवन्नादं व्यथयन्निव भारत 002e विनद्य च महानादं पर्यष्वजत फल्गुनम् 003a स विनद्य महानादमभीशून्सन्नियम्य च 003c ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः 004a ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् 004c रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः 005a प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् 005c अब्रवीदर्जुनो राजन्नातिहृष्टमना इव 006a अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन 006c शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै 007a विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् 007c वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् 008a नैतत्कारणमल्पं हि भविष्यति जनार्दन 008c तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर 009a यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम 009c धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन 010a समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम् 010c तथैतल्लाघवं मन्ये तव कर्म जनार्दन 011 वासुदेव उवाच 011a अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय 011c अतीव मनसः सद्यः प्रसादकरमुत्तमम् 012a शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते 012c कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय 013a शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह 013c य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे 014a दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः 014c दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे 015a यदि हि स्यात्सकवचस्तथैव च सकुण्डलः 015c सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली 016a वासवो वा कुबेरो वा वरुणो वा जलेश्वरः 016c यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् 017a गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् 017c न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् 018a त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः 018c विहीनकवचश्चायं कृतः परपुरञ्जयः 019a उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते 019c प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः 020a आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा 020c तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः 021a यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना 021c वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे 022a कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च 022c तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे 023a एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् 023c ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ 024a ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः 024c रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः 025a युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः 025c केसरीव वने मर्दन्मत्तमातङ्गयूथपान् 025e विमदान्रथशार्दूलान्कुरुते रणमूर्धनि 026a मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् 026c त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः 026e शरजालसहस्रांशुः शरदीव दिवाकरः 027a तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ 027c दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् 027e सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया 028a एको हि योगोऽस्य भवेद्वधाय छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् 028c कृच्छ्रप्राप्तं रथचक्रे निमग्ने हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य 029a जरासन्धश्चेदिराजो महात्मा महाबलश्चैकलव्यो निषादः 029c एकैकशो निहताः सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव 030a अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः 030c अलायुधः परसैन्यावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी