001 सञ्जय उवाच 001a निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः 001c ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः 002a तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् 002c तावकानां महाराज भयमासीत्सुदारुणम् 003a अलायुधविषक्तं तु भैमसेनिं महाबलम् 003c दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् 004a दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ 004c दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः 005a ततः परमनाराचैर्युधामन्यूत्तमौजसौ 005c सात्यकिं च रथोदारं कम्पयामास मार्गणैः 006a तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् 006c मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप 007a तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह 007c मेघानामिव घर्मान्ते बभूव तुमुलो निशि 008a ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तडिन्मण्डलकेतुशृङ्गः 008c शरौघवर्षाकुलवृष्टिमांश्च सङ्ग्राममेघः स बभूव राजन् 009a तदुद्धतं शैल इवाप्रकम्प्यो वर्षं महच्छैलसमानसारः 009c विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी 010a ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः 010c शत्रून्व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते 011a सञ्छिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः 011c केचिद्विसूता विहयाश्च केचिद्वैकर्तनेनाशु कृता बभूवुः 012a अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते बलमन्वपद्यन् 012c तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे 013a आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंह इवोन्ननाद 013c वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः 014a तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डैश्च सवत्सदन्तैः 014c वराहकर्णैः सविषाणशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम् 015a तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज 015c सुवर्णपुङ्खज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव स्रजाभिः 016a समं हि तावप्रतिमप्रभावा वन्योन्यमाजघ्नतुरुत्तमास्त्रैः 016c तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम् 017a अतीव तच्चित्रमतीव रूपं बभूव युद्धं रविभीमसून्वोः 017c समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रतप्तम् 018a घटोत्कचो यदा कर्णं न विशेषयते नृप 018c तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः 019a तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः 019c सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत 020 धृतराष्ट्र उवाच 020a तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे 020c मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय 021 सञ्जय उवाच 021a अन्तर्हितं राक्षसं तं विदित्वा सम्प्राक्रोशन्कुरवः सर्व एव 021c कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः 022a ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशो व्यावृणोद्बाणजालैः 022c न वै किञ्चिद्व्यापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे 023a न चाददानो न च सन्दधानो न चेषुधी स्पृशमानः कराग्रैः 023c अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम् 024a ततो मायां विहितामन्तरिक्षे घोरां भीमां दारुणां राक्षसेन 024c सम्पश्यामो लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम् 025a ततस्तस्या विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र 025c घोषश्चान्यः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम् 026a ततः शराः प्रापतन्रुक्मपुङ्खाः शक्त्यः प्रासा मुसलान्यायुधानि 026c परश्वधास्तैलधौताश्च खड्गाः प्रदीप्ताग्राः पट्टिशास्तोमराश्च 027a मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः 027c गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात् 028a महाशिलाश्चापतंस्तत्र तत्र सहस्रशः साशनयः सवज्राः 028c चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि 029a तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम् 029c वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम् 030a शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् 030c शिलाहतानां च महारथानां महान्निनादः पततां बभूव 031a सुभीमनानाविधशस्त्रपातैर्घटोत्कचेनाभिहतं समन्तात् 031c दौर्योधनं तद्बलमार्तरूपमावर्तमानं ददृशे भ्रमन्तम् 032a हाहाकृतं सम्परिवर्तमानं संलीयमानं च विषण्णरूपम् 032c ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा न बभूवुस्तदानीम् 033a तां राक्षसीं घोरतरां सुभीमां वृष्टिं महाशस्त्रमयीं पतन्तीम् 033c दृष्ट्वा बलौघांश्च निपात्यमानान्महद्भयं तव पुत्रान्विवेश 034a शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्त्यः 034c रक्षोगणान्नर्दतश्चाभिवीक्ष्य नरेन्द्रयोधा व्यथिता बभूवुः 035a ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः 035c नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमार्गम् 036a तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः 036c वज्रैः पिनाकैरशनिप्रहारैश्चक्रैः शतघ्न्युन्मथिताश्च पेतुः 037a हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः स्थूणाश्च कार्ष्णायसपट्टनद्धाः 037c अवाकिरंस्तव पुत्रस्य सैन्यं तथा रौद्रं कश्मलं प्रादुरासीत् 038a निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः सम्भग्नाङ्गाः शेरते तत्र शूराः 038c भिन्ना हयाः कुञ्जराश्चावभग्नाः सञ्चूर्णिताश्चैव रथाः शिलाभिः 039a एवं महच्छस्त्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः 039c मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम् 040a तस्मिन्घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे 040c ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव 041a पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे 041c तथा तेषां मज्जतां भारतानां न स्म द्वीपस्तत्र कश्चिद्बभूव 042a तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् 042c अनीकानां प्रविभागेऽप्रकाशे न ज्ञायन्ते कुरवो नेतरे वा 043a निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः 043c तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं चैकं तत्र राजन्नपश्यम् 044a ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन्राक्षसस्य 044c ह्रीमान्कुर्वन्दुष्करमार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः 045a ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च 045c असम्मोहं पूजयन्तोऽस्य सङ्ख्ये सम्पश्यन्तो विजयं राक्षसस्य 046a तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान 046c ते जानुभिर्जगतीमन्वपद्यन्गतासवो निर्दशनाक्षिजिह्वाः 047a ततो हताश्वादवरुह्य वाहादन्तर्मनाः कुरुषु प्राद्रवत्सु 047c दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम् 048a ततोऽब्रुवन्कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम् 048c शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः 049a करिष्यतः किं च नो भीमपार्थौ तपन्तमेनं जहि रक्षो निशीथे 049c यो नः सङ्ग्रामाद्घोररूपाद्विमुच्येत्स नः पार्थान्समरे योधयेत 050a तस्मादेनं राक्षसं घोररूपं जहि शक्त्या दत्तया वासवेन 050c मा कौरवाः सर्व एवेन्द्रकल्पा रात्रीमुखे कर्ण नेशुः सयोधाः 051a स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजन्नश्यमानं बलं च 051c महच्च श्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः 052a स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयत्प्रतिघातं रणे तम् 052c शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन् 053a यासौ राजन्निहिता वर्षपूगान्वधायाजौ सत्कृता फल्गुनस्य 053c यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय 054a तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव रात्रिम् 054c मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय 055a तामुत्तमां परकायापहन्त्रीं दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् 055c भीतं रक्षो विप्रदुद्राव राजन्कृत्वात्मानं विन्ध्यपादप्रमाणम् 056a दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र 056c ववुर्वातास्तुमुलाश्चापि राजन्सनिर्घाता चाशनिर्गां जगाम 057a सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य 057c ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविशन्ती 058a युद्ध्वा चित्रैर्विविधैः शस्त्रपूगैर्दिव्यैर्वीरो मानुषै राक्षसैश्च 058c नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या 059a इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय 059c तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजन्मेघशैलप्रकाशः 060a ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः 060c अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम् 061a स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात 061c हतोऽप्येवं तव सैन्येकदेश;मपोथयत्कौरवान्भीषयाणः 062a ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यः शङ्खा मुरजाश्चानकाश्च 062c दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः 063a ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः 063c अन्वारूढस्तव पुत्रं रथस्थं हृष्टश्चापि प्राविशत्स्वं स सैन्यम्