001 सञ्जय उवाच 001a सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् 001c वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा 002a पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् 002c पश्यतां सर्वसैन्यानां तव चैव महाद्युते 003a स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् 003c जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि 004a स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् 004c युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः 004e तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः 005a अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् 005c वेगेनापततः शूरान्प्रगृहीतशरासनान् 006a आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः 006c नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः 007a सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् 007c परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् 008a कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् 008c धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् 009a तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः 009c अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे 010a ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः 010c नकुलः सहदेवश्च सात्यकिश्च महारथः 010e ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च 011a अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम् 011c परिघेणातिकायेन ताडयामास मूर्धनि 012a स तु तेन प्रहारेण भैमसेनिर्महाबलः 012c ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् 013a ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् 013c चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् 014a सा हयान्सारथिं चैव रथं चास्य महास्वना 014c चूर्णयामास वेगेन विसृष्टा भीमकर्मणा 015a स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः 015c उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् 016a स समास्थाय मायां तु ववर्ष रुधिरं बहु 016c विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः 017a ततो वज्रनिपाताश्च साशनिस्तनयित्नवः 017c महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे 018a तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु 018c ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् 019a सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि 019c अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे 020a अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् 020c दिशो विध्वंसयामास तदद्भुतमिवाभवत् 021a ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् 021c आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः 022a पिनाकैः करवालैश्च तोमरप्रासकम्पनैः 022c नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः 023a अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि 023c उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः 024a शमीपीलुकरीरैश्च शम्याकैश्चैव भारत 024c इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः 025a पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः 025c महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः 026a विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः 026c तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव 027a युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप 027c हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा 028a तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा 028c प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः 029a तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ 029c भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ 030a तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप 030c रुधिरं च महाकायावभिवृष्टाविवाचलौ 031a अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् 031c बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् 032a सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् 032c तदा सुतुमुलं नादं ननाद सुमहाबलः 033a हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम् 033c पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे 034a ततो भेरीसहस्राणि शङ्खानामयुतानि च 034c अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते 035a अतीव सा निशा तेषां बभूव विजयावहा 035c विद्योतमाना विबभौ समन्ताद्दीपमालिनी 036a अलायुधस्य तु शिरो भैमसेनिर्महाबलः 036c दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् 037a अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् 037c बभूव परमोद्विग्नः सह सैन्येन भारत 038a तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि 038c हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् 039a ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः 039c जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत 040a स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै 040c प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत