001 सञ्जय उवाच 001a तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे 001c हर्षमाहारयां चक्रुः कुरवः सर्व एव ते 002a तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः 002c अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् 003a पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा 003c अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् 004a तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे 004c कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने 005a उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः 005c तथैव तावका राजन्घूर्णमानास्ततस्ततः 006a चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः 006c तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे 007a सर्वमाविग्नमभवद्धाहाभूतमचेतनम् 007c तव सैन्यं महाराज निराशं कर्णजीविते 008a दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् 008c अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् 009a एष वैकर्तनः कर्णो हैडिम्बेन समागतः 009c कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे 010a पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना 010c नानाशस्त्रैरभिहतान्पादपानिव दन्तिना 011a तवैष भागः समरे राजमध्ये मया कृतः 011c तवैवानुमते वीर तं विक्रम्य निबर्हय 012a पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः 012c मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः 013a एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः 013c तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् 014a ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो 014c प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः 015a तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः 015c मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने 016a रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः 016c अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा 017a तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् 017c अलायुधेन समरे सिंहेनेव गवां पतिम् 018a रथेनादित्यवपुषा भीमः प्रहरतां वरः 018c किरञ्शरौघान्प्रययावलायुधरथं प्रति 019a तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो 019c घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् 020a तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो 020c सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् 021a तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः 021c अभ्यवर्षत कौन्तेयं पुनः पुनररिन्दमः 022a तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् 022c नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः 023a स ताड्यमानो बलिभिर्भीमसेनो महाबलः 023c पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः 024a ते वध्यमाना भीमेन राक्षसाः खरयोनयः 024c विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश 025a तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् 025c अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् 026a तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः 026c अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे 026e चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् 027a स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः 027c गदां चिक्षेप वेगेन वज्रपातोपमां तदा 028a तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः 028c गदया ताडयामास सा गदा भीममाव्रजत् 029a स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् 029c तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः 030a ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः 030c शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् 031a पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः 031c न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः 032a तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे 032c अब्रवीत्पुरुषश्रेष्ठो धनञ्जयमिदं वचः 033a पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् 033c पदवीमस्य गच्छ त्वं मा विचारय पाण्डव 034a धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ 034c सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः 035a नकुलः सहदेवश्च युयुधानश्च वीर्यवान् 035c इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव 036a त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् 036c वारयस्व नरव्याघ्र महद्धि भयमागतम् 037a एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः 037c जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे 038a अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः 038c धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् 039a हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः 039c जघान मिषतः सङ्ख्ये भीमसेनस्य भारत 040a सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः 040c तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह 041a ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् 041c गदया राक्षसो घोरो निजघान ननाद च 042a तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् 042c भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् 043a तयोः समभवद्युद्धं तुमुलं नररक्षसोः 043c गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् 044a गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् 044c मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः 045a रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः 045c यथासन्नमुपादाय निजघ्नतुरमर्षणौ 046a तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् 046c मत्ताविव महानागावकृष्येतां पुनः पुनः 047a तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः 047c स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत्