001 सञ्जय उवाच 001a तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे 001c अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत 002a महत्या सेनया युक्तः सुयोधनमुपागमत् 002c राक्षसानां विरूपाणां सहस्रैः परिवारितः 002e नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् 003a तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः 003c किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा 004a स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् 004c विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे 005a स मत्त इव मातङ्गः सङ्क्रुद्ध इव चोरगः 005c दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः 006a विदितं ते महाराज यथा भीमेन राक्षसाः 006c हिडिम्बबककिर्मीरा निहता मम बान्धवाः 007a परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा 007c किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह 008a तमहं सगणं राजन्सवाजिरथकुञ्जरम् 008c हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् 009a अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् 009c हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह 009e निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् 010a तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा 010c प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः 011a त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् 011c न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः 012a एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः 012c अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः 013a दीप्यमानेन वपुषा रथेनादित्यवर्चसा 013c तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः 014a तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः 014c ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः 015a तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः 015c शतं युक्ता महाकाया मांसशोणितभोजनाः 016a तस्यापि रथनिर्घोषो महामेघरवोपमः 016c तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् 017a तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः 017c सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः 018a तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः 018c स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः 019a दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखड्गः 019c गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा 020a रथेन तेनानलवर्चसा च विद्रावयन्पाण्डववाहिनीं ताम् 020c रराज सङ्ख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे 021a ते चापि सर्वे प्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च 021c हर्षान्विता युयुधुस्तत्र राजन्समन्ततः पाण्डवयोधवीराः