001 धृतराष्ट्र उवाच 001a यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः 001c निशीथे समसज्जेतां तद्युद्धमभवत्कथम् 002a कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः 002c रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च 003a किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा 003c कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् 003e पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय 004 सञ्जय उवाच 004a लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः 004c ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः 005a आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् 005c सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः 006a नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः 006c महाकायो महाबाहुर्महाशीर्षो महाबलः 007a विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः 007c स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् 008a तथैव हस्ताभरणी महामायोऽङ्गदी तथा 008c उरसा धारयन्निष्कमग्निमालां यथाचलः 009a तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् 009c तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत 010a कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् 010c धारयन्विपुलं कांस्यं कवचं च महाप्रभम् 011a किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् 011c ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् 012a सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् 012c अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् 013a तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः 013c कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः 014a राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः 014c रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान्रणे 014e स तेन सहितस्तस्थावरुणेन यथा रविः 015a संसक्त इव चाभ्रेण यथाद्रिर्महता महान् 015c दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः 015e रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः 016a वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् 016c व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् 017a रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः 017c तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् 018a तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः 018c अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः 019a तेन वित्रास्यमानानि तव सैन्यानि भारत 019c समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः 020a तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् 020c उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् 021a ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् 021c मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् 022a स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते 022c कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव 023a तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने 023c प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः 024a ततः पूर्णायतोत्सृष्टैः शरैः सन्नतपर्वभिः 024c न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी 025a तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ 025c रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः 026a सञ्छिन्दन्तौ हि गात्राणि सन्दधानौ च सायकान् 026c धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् 027a तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ 027c व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ 028a तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् 028c नाकम्पयेतामन्योन्यं यतमानौ महाद्युती 029a तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् 029c प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे 030a तस्य सन्दधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः 030c धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् 030e घटोत्कचं यदा कर्णो विशेषयति नो नृप 031a ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः 031c कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः 031e प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः 032a शूलमुद्गरधारिण्या शैलपादपहस्तया 032c रक्षसां घोररूपाणां महत्या सेनया वृतः 033a तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः 033c भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् 034a घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः 034c प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् 035a ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः 035c अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः 036a आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः 036c पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा 037a तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 037c पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः 038a तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे 038c व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् 039a मायायां तु प्रहीणायाममर्षात्स घटोत्कचः 039c विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् 040a ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे 040c विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः 041a सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् 041c घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः 042a घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु 042c चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् 043a क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् 043c चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया 044a प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः 044c अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि 045a घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् 045c कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् 046a सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 046c घटोत्कचरथं तूर्णं छादयामास पत्रिभिः 047a घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा 047c क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् 048a ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् 048c प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् 049a ततो मायाविनं कर्णो भीमसेनसुतं दिवि 049c मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः 050a तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् 050c अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् 051a न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् 051c सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा 052a न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् 052c दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् 053a स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् 053c मायायुद्धेन मायावी सूतपुत्रमयोधयत् 054a सोऽयोधयत्तदा कर्णं मायया लाघवेन च 054c अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् 055a भैमसेनिर्महामायो मायया कुरुसत्तम 055c प्रचकार महामायां मोहयन्निव भारत 056a स स्म कृत्वा विरूपाणि वदनान्यशुभाननः 056c अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया 057a पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे 057c गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत 057e हतं तं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः 058a अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत 058c पुनश्चापि महाकायः शतशीर्षः शतोदरः 059a व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः 059c अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः 059e सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत 060a वसुधां दारयित्वा च पुनरप्सु न्यमज्जत 060c अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः 061a सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते 061c क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः 062a गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः 062c प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते 063a तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि 063c युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 064a इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् 064c उत्पपातान्तरिक्षं च जहास च सुविस्वरम् 064e कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी 065a रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 065c रथिनामृषभं कर्णं धाराभिरिव तोयदः 065e शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् 066a दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ 066c घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः 067a सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसङ्कटैः 067c शूलप्रासासिमुसलजलप्रस्रवणो महान् 068a तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् 068c प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे 069a स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् 069c ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत 070a ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 070c अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् 071a अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः 071c व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा 072a स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः 072c जघानास्त्रं महाराज घटोत्कचसमीरितम् 073a ततः प्रहस्य समरे भैमसेनिर्महाबलः 073c प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् 074a स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् 074c घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् 075a सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः 075c गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा 076a नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः 076c वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् 076e दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् 077a घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः 077c ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् 078a भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् 078c कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 079a अथान्यद्धनुरादाय दृढं भारसहं महत् 079c व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् 080a ततः कर्णो महाराज प्रेषयामास सायकान् 080c सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति 081a तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् 081c सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् 082a विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः 082c ददाह भगवान्वह्निर्भूतानीव युगक्षये 083a स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः 083c पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 084a तेषु राजसहस्रेषु पाण्डवेयेषु मारिष 084c नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव 085a ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् 085c भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव 086a तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत 086c महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः 087a तलं तलेन संहत्य सन्दश्य दशनच्छदम् 087c रथमास्थाय च पुनर्मायया निर्मितं पुनः 088a युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः 088c स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह 089a स ययौ घोररूपेण रथेन रथिनां वरः 089c द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते 090a स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः 090c अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् 091a तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः 091c चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे 092a साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा 092c विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः 093a कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा 093c यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् 094a एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः 094c ततो मुमोच नाराचान्सूतपुत्रः परन्तपः 095a अशक्यं कर्तुमन्येन सर्वभूतेषु मानद 095c यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने 096a स हन्यमानो नाराचैर्धाराभिरिव पर्वतः 096c गन्धर्वनगराकारः पुनरन्तरधीयत 097a एवं स वै महामायो मायया लाघवेन च 097c अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः 098a निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा 098c असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत 099a ततः क्रुद्धो महाराज भैमसेनिर्महाबलः 099c चकार बहुधात्मानं भीषयाणो नराधिपान् 100a ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः 100c अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः 101a स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः 101c नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत 102a राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः 102c ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् 102e अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा 103a उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः 103c तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः 104a प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् 104c आजघान हयानस्य शरैः सन्नतपर्वभिः 105a ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः 105c वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः 106a स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः 106c एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत