001 सञ्जय उवाच 001a दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति 001c प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे 002a अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः 002c एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् 003a अभियाति द्रुतं कर्णं तद्वारय महारथम् 003c वृतः सैन्येन महता याहि यत्र महाबलः 004a कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति 004c रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद 005a एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली 005c दुर्योधनमुपागम्य प्राह प्रहरतां वरः 006a दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् 006c पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् 007a जटासुरो मम पिता रक्षसामग्रणीः पुरा 007c प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः 007e तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर 008a तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः 008c द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे 008e त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् 009a तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् 009c जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् 010a अलम्बलञ्च कर्णञ्च कुरुसैन्यं च दुस्तरम् 010c हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव 011a ततो मायामयं दृष्ट्वा रथं तूर्णमलम्बलः 011c घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् 012a विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः 012c व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् 013a तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष 013c निशीथे विप्रकीर्यन्त वातनुन्ना घना इव 014a घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी 014c निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः 015a अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे 015c आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् 016a तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च 016c घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् 017a ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः 017c अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् 018a ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् 018c उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह 019a जटासुरिर्महाराज विरथो हतसारथिः 019c घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् 020a मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः 020c क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् 021a ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना 021c जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् 022a तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् 022c दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले 023a अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् 023c घटोत्कचं रणे रोषान्निष्पिपेष महीतले 024a तयोः समभवद्युद्धं गर्जतोरतिकाययोः 024c घटोत्कचालम्बलयोस्तुमुलं लोमहर्षणम् 025a विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ 025c युयुधाते महावीर्याविन्द्रवैरोचनाविव 026a पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ 026c पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ 026e पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ 027a एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ 027c भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ 028a परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः 028c मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः 029a हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः 029c युयुधाते महामायौ राक्षसप्रवरौ युधि 030a ततो घटोत्कचो राजन्नलम्बलवधेप्सया 030c उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह 031a गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् 031c उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे 032a ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् 032c चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् 033a तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः 033c घटोत्कचो ययावाशु दुर्योधनरथं प्रति 034a अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः 034c रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् 034e प्राणदद्भैरवं नादं प्रावृषीव बलाहकः 035a अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः 035c एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः 035e पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः 036a एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर 036c किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि 037a ततः समभवद्युद्धं घोररूपं भयानकम् 037c विस्मापनं महाराज नरराक्षसयोर्मृधे