001 सञ्जय उवाच 001a ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा 001c आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः 002a प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष 002c पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् 003a तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ 003c पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् 004a ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे 004c सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः 005a कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः 005c सारथिं चास्य भल्लेन रथनीडादपातयत् 006a धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः 006c गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् 007a विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः 007c ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत 007e आरुरोह रथं चापि सहदेवस्य मारिष 008a कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् 008c शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः 009a लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् 009c अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् 010a सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः 010c सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी 011a पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले 011c रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः 012a धावमानस्य योधस्य क्षुरप्रैः स महामृधे 012c बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् 013a ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते 013c वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष 014a नाज्ञासिषुर्धावमाना बहवश्च महारथाः 014c सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे 015a ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह 015c तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे 016a अपि स्वं समरे योधं धावमानं विचेतसः 016c कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते 017a तान्यनीकानि भग्नानि द्रवमाणानि भारत 017c अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् 018a अवेक्षमाणास्तेऽन्योन्यं सुसम्मूढा विचेतसः 018c नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना 019a कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः 019c द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः 020a ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् 020c अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् 021a पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् 021c निशीथे दारुणे काले तपन्तमिव भास्करम् 022a कर्णसायकनुन्नानां क्रोशतामेष निस्वनः 022c अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् 023a यथा विसृजतश्चास्य सन्दधानस्य चाशुगान् 023c पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् 024a यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि 024c कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय 025a एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् 025c भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् 026a एवं गते प्राप्तकालं कर्णानीके पुनः पुनः 026c भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी 027a द्रोणसायकनुन्नानां भग्नानां मधुसूदन 027c कर्णेन त्रास्यमानानामवस्थानं न विद्यते 028a पश्यामि च तथा कर्णं विचरन्तमभीतवत् 028c द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः 029a नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि 029c प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः 030a स भवानत्र यात्वाशु यत्र कर्णो महारथः 030c अहमेनं वधिष्यामि मां वैष मधुसूदन 031 वासुदेव उवाच 031a पश्यामि कर्णं कौन्तेय देवराजमिवाहवे 031c विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् 032a नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय 032c ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् 033a न तु तावदहं मन्ये प्राप्तकालं तवानघ 033c समागमं महाबाहो सूतपुत्रेण संयुगे 034a दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी 034c त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च 035a घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः 035c स हि भीमेन बलिना जातः सुरपराक्रमः 036a तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च 036c सततं चानुरक्तो वो हितैषी च घटोत्कचः 036e विजेष्यति रणे कर्णमिति मे नात्र संशयः 037 सञ्जय उवाच 037a एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः 037c आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः 038a कवची स शरी खड्गी सधन्वा च विशाम्पते 038c अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् 038e अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् 039a ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् 039c अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव 040a घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक 040c प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् 041a स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा 041c विविधानि तवास्त्राणि सन्ति माया च राक्षसी 042a पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी 042c काल्यमाना यथा गावः पालेन रणमूर्धनि 043a एष कर्णो महेष्वासो मतिमान्दृढविक्रमः 043c पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् 044a किरन्तः शरवर्षाणि महान्ति दृढधन्विनः 044c न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा 045a निशीथे सूतपुत्रेण शरवर्षेण पीडिताः 045c एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः 046a एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे 046c निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम 047a स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः 047c मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च 048a एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः 048c कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् 049a तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः 049c सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन 050a पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः 050c मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप 051a रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः 051c बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः 052a जहि कर्णं महेष्वासं निशीथे मायया रणे 052c पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः 053a केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् 053c अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम् 054a घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः 054c मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः 055a स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि 055c सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः 056a जहि कर्णं रणे शूरं सात्वतेन सहायवान् 056c यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् 057 घटोत्कच उवाच 057a अलमेवास्मि कर्णाय द्रोणायालं च सत्तम 057c अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् 058a अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि 058c यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति 059a न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् 059c सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः 060 सञ्जय उवाच 060a एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा 060c अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् 061a तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् 061c अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः 062a तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि 062c गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव