001 सञ्जय उवाच 001a विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः 001c क्रोधेन महताविष्टः पुत्रस्तव विशाम्पते 002a अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् 002c अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् 003a भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः 003c आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना 004a निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् 004c भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः 005a यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि 005c आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ 006a तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसम्मतम् 006c कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् 007a यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ 007c युध्येतामनुरूपेण विक्रमेण सुविक्रमौ 008a वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते 008c प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ 009a ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ 009c शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे 010a तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः 010c अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः 011a अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् 011c अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः 012a कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः 012c दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः 012e एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन् 013a दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् 013c विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः 014a ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशाम्पते 014c रश्मिभिर्भास्करो राजंस्तमसामिव भारत 015a द्रोणेन वध्यमानानां पाञ्चालानां विशाम्पते 015c शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् 016a पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् 016c भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् 016e उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः 017a अपरे मोहिता मोहात्तमेवाभिमुखा ययुः 017c पाण्डवानां रणे योधाः परलोकं तथापरे 018a सा तथा पाण्डवी सेना वध्यमाना महात्मभिः 018c निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः 019a पश्यतो भीमसेनस्य विजयस्याच्युतस्य च 019c यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः 020a तमसा संवृते लोके न प्राज्ञायत किञ्चन 020c कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे 021a द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ 021c जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् 022a पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः 022c जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् 023a द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी 023c पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् 024a एतयोः शरवर्षेण प्रभग्ना नो महारथाः 024c वार्यमाणापि कौन्तेय पृतना नावतिष्ठते 025a एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः 025c द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् 026a एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ 026c उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् 026e एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् 027a वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः 027c पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् 028a एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः 028c रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ 029a एतेन सहितो युध्य पाञ्चालैश्च महारथैः 029c आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन 030a ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ 030c द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि 031a ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् 031c ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि 032a स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् 032c यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः 033a तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी 033c युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये 034a रजसा तमसा चैव संवृते भृशदारुणे 034c केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः 035a अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः 035c प्रहरद्भिर्महाराज स्वयंवर इवाहवे 036a निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् 036c क्रुद्धानां युध्यमानानां जयतां जीयतामपि 037a यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम 037c तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् 038a तथा संयुध्यमानानां विगाढाभून्महानिशा 038c पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः