001 सञ्जय उवाच 001a ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः 001c अमृष्यमाणाः संरब्धा युयुधानरथं प्रति 002a ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः 002c सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् 003a अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः 003c सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् 004a तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् 004c त्वरमाणा महावीर्या माधवस्य वधैषिणः 005a तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा 005c प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् 006a तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः 006c निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः 007a हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् 007c क्षुरप्रैः पातयामास तावकानां स माधवः 008a पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत 008c बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो 009a तेषां तु युयुधानेन युध्यतां युधि भारत 009c बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् 010a तेन शब्देन महता पूरितासीद्वसुन्धरा 010c रात्रिः समभवच्चैव तीव्ररूपा भयावहा 011a दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् 011c श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् 012a सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः 012c यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः 013a तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् 013c सूतः सञ्चोदयामास युयुधानरथं प्रति 014a ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः 014c शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् 015a ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः 015c दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत 016a दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः 016c शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः 017a ततः समभवद्युद्धमाकुलं भरतर्षभ 017c पाञ्चालानां च सर्वेषां भारतानां च दारुणम् 018a शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् 018c सायकानामशीत्या तु विव्याधोरसि भारत 019a ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् 019c सारथिं च रथात्तूर्णं पातयामास पत्रिणा 020a हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशाम्पते 020c मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति 021a शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् 021c चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते 022a अथापरेण भल्लेन मुष्टिदेशे महद्धनुः 022c चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष 023a विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः 023c आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 024a दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् 024c द्रावयामास विशिखैर्निशामध्ये विशाम्पते 025a शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः 025c रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः 025e तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् 026a ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति 026c अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः 027a तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् 027c प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् 028a ततस्तु समरे शूरः शकुनिः सौबलस्तदा 028c विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव 029a पुनश्चैव शतेनास्य संरुरोध महारथम् 029c तमर्जुनस्तु विंशत्या विव्याध युधि भारत 030a अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत 030c संवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः 030e अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् 031a भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः 031c समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता 032a स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः 032c उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः 033a तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् 033c ननाद च महानादं पूरयन्वसुधातलम् 034a अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् 034c निन्ये च चतुरो वाहान्यमस्य सदनं प्रति 035a ततो रथादवप्लुत्य सौबलो भरतर्षभ 035c उलूकस्य रथं तूर्णमारुरोह विशां पते 036a तावेकरथमारूढौ पितापुत्रौ महारथौ 036c पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ 037a तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः 037c विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः 038a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 038c विच्छिन्नानि तथा राजन्बलान्यासन्विशाम्पते 039a तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि 039c प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् 040a उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे 040c सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे 041a विजित्य समरे योधांस्तावकान्भरतर्षभ 041c दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ 042a धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः 042c चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह 043a तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः 043c आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् 044a धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः 044c सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे 045a तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः 045c व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः 046a वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष 046c प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 047a उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी 047c यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति 048a द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् 048c अत्यराजत तेजस्वी शक्रो देवगणेष्विव 049a अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ 049c यमौ च युयुधानश्च पाण्डवश्च वृकोदरः 050a जित्वा रथसहस्राणि तावकानां महारथाः 050c सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः 051a पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः 051c तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते