001 सञ्जय उवाच 001a तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे 001c धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत 002a सम्मृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः 002c अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् 003a धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया 003c परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह 004a तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् 004c पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे 005a बलार्णवौ ततस्तौ तु समेयातां निशामुखे 005c वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव 006a ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः 006c विव्याध हृदये तूर्णं सिंहनादं ननाद च 007a तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे 007c चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् 008a धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ 008c उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम् 009a ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् 009c आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया 010a विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा 010c द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः 011a स विसृष्टो बलवता शरो घोरो महामृधे 011c भासयामास तत्सैन्यं दिवाकर इवोदितः 012a तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः 012c स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः 013a तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति 013c कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् 014a स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष 014c निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः 015a छित्त्वा तु समरे बाणं शरैः सन्नतपर्वभिः 015c धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः 016a पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः 016c शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा 017a दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः 017c पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः 018a स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे 018c सर्वानसम्भ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः 018e द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् 019a ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे 019c विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः 020a द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा 020c त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 021a स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः 021c स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि 022a भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् 022c उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् 023a तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे 023c महावातसमुद्धूतं पक्वं तालफलं यथा 024a तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः 024c राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः 025a न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा 025c निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः 026a सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् 026c अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् 027a दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः 027c पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया 028a षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् 028c मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि 029a एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् 029c धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत 030a तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् 030c राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः 031a तं सात्यकिर्महाराज विव्याध दशभिः शरैः 031c पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् 032a स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः 032c आसीत्समागमो घोरो बलिवासवयोरिव 033a त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः 033c राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत 034a कम्पयन्निव घोषेण धनुषो वसुधां बली 034c सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् 035a विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि 035c कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत 036a तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः 036c अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् 037a तावकाश्च महाराज कर्णपुत्रश्च दंशितः 037c सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः 038a अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो 038c अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे 039a तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते 039c न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् 040a ततः कर्णो हतं मत्वा वृषसेनं महारथः 040c पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् 041a पीड्यमानस्तु कर्णेन युयुधानो महारथः 041c विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः 042a स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः 042c सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः 043a तावन्ये धनुषी सज्ये कृत्वा शत्रुभयङ्करे 043c युयुधानमविध्येतां समन्तान्निशितैः शरैः 044a वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षये 044c अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः 045a श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् 045c सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः 046a एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् 046c पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् 047a श्रूयते रथघोषश्च वासवस्येव नर्दतः 047c करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः 048a एषा विदीर्यते राजन्बहुधा भारती चमूः 048c विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् 049a वातेनेव समुद्धूतमभ्रजालं विदीर्यते 049c सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे 050a द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः 050c विद्धानां शतशो राजञ्श्रूयते निनदो महान् 050e निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे 051a हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् 051c शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति 052a अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः 052c इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् 053a एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः 053c सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः 054a सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् 054c असंशयं महाराज ध्रुवो नो विजयो भवेत् 055a सौभद्रवदिमौ वीरौ परिवार्य महारथौ 055c प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ 056a सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत 056c संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः 057a तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः 057c यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् 058a ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् 058c यथा तूर्णं व्रजत्येष परलोकाय माधवः 059a कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् 059c यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् 060a वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् 060c रथैश्च दशसाहस्रैर्वृतो याहि धनञ्जयम् 061a दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः 061c एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः 062a जहि कृष्णौ महाबाहो धर्मराजं च मातुल 062c नकुलं सहदेवं च भीमसेनं च भारत 063a देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता 063c जहि मातुल कौन्तेयानसुरानिव पावकिः 064a एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः 064c महत्या सेनया सार्धं तव पुत्रैस्तथा विभो 065a प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् 065c ततः प्रववृते युद्धं तावकानां परैः सह 066a प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् 066c बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् 067a अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् 067c तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् 068a महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत 068c धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः