001 सञ्जय उवाच 001a नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव 001c अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 002a कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ 002c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 003a यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति 003c तथैव नकुलो राजञ्शिक्षां सन्दर्शयन्युधि 004a तावुभौ समरे शूरौ शरकण्टकिनौ तदा 004c व्यराजेतां महाराज कण्टकैरिव शाल्मली 005a सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ 005c क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् 006a स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव 006c कर्णिनैकेन विव्याध हृदये निशितेन ह 007a नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना 007c निषसाद रथोपस्थे कश्मलं चैनमाविशत् 008a अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् 008c ननाद शकुनी राजंस्तपान्ते जलदो यथा 009a प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः 009c अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः 010a सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ 010c पुनश्चैव शतेनैव नाराचानां स्तनान्तरे 011a ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे 011c ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् 012a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 012c तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ 012e अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् 013a ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः 013c निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः 013e अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह 014a तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 014c प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत 015a शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते 015c कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः 016a गौतमं द्रुतमायान्तं द्रोणान्तिकमरिन्दमम् 016c विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव 017a तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः 017c पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव 018a महद्युद्धं तयोरासीद्घोररूपं विशाम्पते 018c यथा देवासुरे युद्धे शम्बरामरराजयोः 019a शरजालावृतं व्योम चक्रतुस्तौ महारथौ 019c प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः 020a रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् 020c कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा 021a शिखण्डी तु महाराज गौतमस्य महद्धनुः 021c अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा 022a तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् 022c स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् 023a तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः 023c सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा 024a अथान्यद्धनुरादाय गौतमो रथिनां वरः 024c प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् 025a स छाद्यमानः समरे गौतमेन यशस्विना 025c व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः 026a सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि 026c आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत 027a विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् 027c पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः 028a तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् 028c महत्या सेनया सार्धं ततो युद्धमभूत्पुनः 029a रथानां च रणे राजन्नन्योन्यमभिधावताम् 029c बभूव तुमुलः शब्दो मेघानां नदतामिव 030a द्रवतां सादिनां चैव गजानां च विशाम्पते 030c अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ 031a पत्तीनां द्रवतां चैव पदशब्देन मेदिनी 031c अकम्पत महाराज भयत्रस्तेव चाङ्गना 032a रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् 032c न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव 033a तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः 033c तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत 034a सादी सादिनमासाद्य पदाती च पदातिनम् 034c समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः 035a धावतां द्रवतां चैव पुनरावर्ततामपि 035c बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि 036a दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु 036c अदृश्यन्त महाराज महोल्का इव खाच्च्युताः 037a सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता 037c दिवसप्रतिमा राजन्बभूव रणमूर्धनि 038a आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति 038c तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् 039a शस्त्राणां कवचानां च मणीनां च महात्मनाम् 039c अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः 040a तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे 040c अवधीत्समरे पुत्रं पिता भरतसत्तम 041a पुत्रश्च पितरं मोहात्सखायं च सखा तथा 041c सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः 042a स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् 042c निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम्