001 सञ्जय उवाच 001a शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव 001c चित्रसेनस्तव सुतो वारयामास भारत 002a नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् 002c स च तं प्रतिविव्याध दशभिर्निशितैः शरैः 003a चित्रसेनो महाराज शतानीकं पुनर्युधि 003c नवभिर्निशितैर्बाणैराजघान स्तनान्तरे 004a नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः 004c गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् 005a सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप 005c उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः 006a ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः 006c धनुश्चैव महाराज यतमानस्य संयुगे 007a स छिन्नधन्वा समरे विवर्मा च महारथः 007c धनुरन्यन्महाराज जग्राहारिविदारणम् 008a ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः 008c विव्याध समरे क्रुद्धो भरतानां महारथः 009a शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष 009c जघान चतुरो वाहान्सारथिं च नरोत्तमः 010a अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः 010c नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली 011a तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे 011c अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् 012a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 012c आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः 013a द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् 013c वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा 014a यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् 014c षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ 015a वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् 015c बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे 016a तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे 016c व्यभ्राजेतां महाराज श्वाविधौ शललैरिव 017a रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ 017c रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे 018a तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ 018c किञ्शुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे 019a वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः 019c विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः 020a ततः शरसहस्राणि विमुञ्चन्विबभौ तदा 020c कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः 021a ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् 021c सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति 022a प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः 022c व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः 023a तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा 023c प्रावृट्काले महाराज विद्युद्भिरिव तोयदः 024a ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः 024c यथेन्द्रभयवित्रस्ता दानवास्तारकामये 025a तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः 025c व्यराजन्त महाराज प्रदीपैरवभासिताः 026a तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत 026c मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत 027a तेषु राजसहस्रेषु तावकेषु परेषु च 027c एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् 028a स विजित्य रणे शूरान्सोमकानां महारथान् 028c जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः 029a प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् 029c दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः 030a तयोः समागमो राजंश्चित्ररूपो बभूव ह 030c व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव 031a प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् 031c दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत 032a सोऽतिविद्धो बलवता पुत्रेण तव धन्विना 032c विरराज महाबाहुः सशृङ्ग इव पर्वतः 033a दुःशासनं तु समरे प्रतिविन्ध्यो महारथः 033c नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः 034a तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् 034c प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः 035a सारथिं चास्य भल्लेन ध्वजं च समपातयत् 035c रथं च शतशो राजन्व्यधमत्तस्य धन्विनः 036a पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो 036c चिच्छेद तिलशः क्रुद्धः शरैः सन्नतपर्वभिः 037a विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः 037c अयोधयत्तव सुतं किरञ्शरशतान्बहून् 038a क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् 038c अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् 039a तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः 039c अन्ववर्तन्त वेगेन महत्या सेनया सह 040a आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् 040c धनुर्गृह्य महाराज विव्याध तनयं तव 041a ततस्तु तावकाः सर्वे परिवार्य सुतं तव 041c अभ्यवर्तन्त सङ्ग्रामे महत्या सेनया वृताः 042a ततः प्रववृते युद्धं तव तेषां च भारत 042c निशीथे दारुणे काले यमराष्ट्रविवर्धनम्