001 सञ्जय उवाच 001a सहदेवमथायान्तं द्रोणप्रेप्सुं विशाम्पते 001c कर्णो वैकर्तनो युद्धे वारयामास भारत 002a सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः 002c पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः 003a तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् 003c सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् 004a ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् 004c कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् 005a तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः 005c सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् 006a विरथः सहदेवस्तु खड्गं चर्म समाददे 006c तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव 007a ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् 007c प्रेषयामास समरे वैकर्तनरथं प्रति 008a तामापतन्तीं सहसा सहदेवप्रवेरिताम् 008c व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् 009a गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः 009c शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः 010a ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् 010c सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् 010e रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति 011a तमापतन्तं सहसा कालचक्रमिवोद्यतम् 011c शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः 012a तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना 012c वार्यमाणश्च विशिखैः सहदेवो रणं जहौ 013a तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ 013c अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते 014a मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह 014c सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः 015a अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः 015c एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह 015e तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे 016a एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः 016c प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव 017a वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा 017c कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः 018a सहदेवस्ततो राजन्विमनाः शरपीडितः 018c कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत 019a आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः 019c जनमेजयस्य समरे त्वरायुक्तो महारथः 020a विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् 020c मद्रराजः शरौघेण छादयामास धन्विनम् 021a तयोः समभवद्युद्धं समरे दृढधन्विनोः 021c यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा 022a मद्रराजो महाराज विराटं वाहिनीपतिम् 022c आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् 023a प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः 023c पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह 024a तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः 024c सूतं ध्वजं च समरे रथोपस्थादपातयत् 025a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 025c तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् 026a शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् 026c रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः 027a शतानीकमथायान्तं मद्रराजो महामृधे 027c विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् 028a तस्मिंस्तु निहते वीरे विराटो रथसत्तमः 028c आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् 029a ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः 029c मद्रराजरथं तूर्णं छादयामास पत्रिभिः 030a ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् 030c आजघानोरसि दृढं विराटं वाहिनीपतिम् 031a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 031c कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ 031e सारथिस्तमपोवाह समरे शरविक्षतम् 032a ततः सा महती सेना प्राद्रवन्निशि भारत 032c वध्यमाना शरशतैः शल्येनाहवशोभिना 033a तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ 033c प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः 034a तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः 034c अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् 035a तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः 035c लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् 035e कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् 036a रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता 036c ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 037a स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः 037c रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् 037e किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि 038a अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे 038c द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ 039a तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् 039c नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् 040a सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् 040c धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् 040e विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् 041a अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ 041c पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् 042a तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ 042c किरञ्शरगणान्राजन्नरवारणवाजिषु 043a वध्यमाना महाराज पाण्डवेन यशस्विना 043c सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः 044a तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना 044c सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते