001 सञ्जय उवाच 001a भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् 001c आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् 002a अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः 002c विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् 003a तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् 003c दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे 004a तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् 004c क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके 005a तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा 005c क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः 006a तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ 006c मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् 007a ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव 007c धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः 008a अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः 008c विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 009a सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 009c धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत 010a स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशाम्पते 010c धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव 011a छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः 011c प्रजहार महावेगां शक्तिं तस्य महोरसि 012a स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् 012c लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया 013a तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः 013c अभ्यधावत वेगेन शैनेयं प्रति संयुगे 013e अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः 014a तमापतन्तं संरब्धं शैनेयस्य रथं प्रति 014c घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः 015a तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 015c एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव 015e युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 016a इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा 016c द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी 017a रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 017c रथिनामृषभं द्रौणिं धाराभिरिव तोयदः 018a शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः 018c शातयामास समरे तरसा द्रौणिरुत्स्मयन् 019a ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः 019c समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दम 020a स शरैराचितस्तेन राक्षसो रणमूर्धनि 020c व्यकाशत महाराज श्वाविच्छललितो यथा 021a ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् 021c शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः 022a क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः 022c वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः 023a तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् 023c पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः 024a सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः 024c व्यधमत्स महातेजा महाभ्राणीव मारुतः 025a ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् 025c घोररूपो महाराज योधानां हर्षवर्धनः 026a ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः 026c बभौ निशामुखे व्योम खद्योतैरिव संवृतम् 027a स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः 027c प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् 028a ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे 028c विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव 029a ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे 029c जघानोरसि सङ्क्रुद्धः कालज्वलनसन्निभैः 030a स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः 030c चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः 030e स मोहमनुसम्प्राप्तो ध्वजयष्टिं समाश्रितः 031a ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप 031c हतं स्म मेनिरे सर्वे तावकास्तं विशाम्पते 032a तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे 032c पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे 033a प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महाबलः 033c धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 034a मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् 034c यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् 035a स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः 035c विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते 036a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 036c राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना 037a दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् 037c द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः 038a तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् 038c ननाद सुमहानादं द्रोणपुत्रो महाबलः 039a पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत 039c वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः 040a भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति 040c स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः 041a तं भीमसेनो नवभिः शरैर्विव्याध मारिष 041c दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत 042a तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे 042c मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ 043a अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः 043c पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् 044a तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः 044c विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् 045a ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष 045c चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् 046a तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् 046c कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 047a दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष 047c क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत 048a अथान्यद्धनुरादाय भीमसेनो महाबलः 048c विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः 049a तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् 049c द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा 050a आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् 050c तव पुत्रो महाराज जितकाशी मदोत्कटः 051a स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः 051c शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् 052a अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः 052c पश्यतः सर्वलोकस्य भीमस्य च महात्मनः 053a ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् 053c चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति 054a ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे 054c सारथिं च गदा गुर्वी ममर्द भरतर्षभ 055a पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् 055c आप्लुतः सहसा यानं नन्दकस्य महात्मनः 056a ततो भीमो हतं मत्वा तव पुत्रं महारथम् 056c सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् 057a तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् 057c ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः 058a तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् 058c भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः 059a ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् 059c अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः 060a पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशाम्पते 060c सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया 061a तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह 061c घोरे तमसि मग्नानां निघ्नतामितरेतरम्